Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 297
________________ Appendix E. ॥ अथ प्रशमरतिः प्रारभ्यते ॥ . नाभेयाद्याः सिद्धार्थ राजमूनुचरमाश्चरमदेहाः । पञ्च नव दश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधंश्च । प्रशमरतिस्थैर्यार्थ वक्ष्ये जिनशासनात्किंचित् ॥२॥ यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥३॥ श्रुतबुद्धिविभवपरिहोणकस्तथाप्यहमशक्किमविचिन्य । द्रमक दवावयवोच्छकमन्वेष्टुं तत्प्रवेशेषुः ॥४॥ बहुभिर्जिनवचनार्णवपारगतैः कविषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमनननशास्त्रपद्धतयः ॥५॥ ताभ्यो विस्ताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारंपर्यादुच्छेषिकाः कृपणकेन संहत्य ॥६॥ तद्भकिबलार्पितया मयाप्यविमलाल्पया खमतिशत्या । प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् ॥७॥ यद्यप्यवगौतार्था न वा कठोरप्रकृष्टभावार्था । मद्भिस्तथापि मय्यनुकम्पैकरमैरनुग्राह्यम् ॥८॥ १ P. omits.

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332