Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 311
________________ APPENDIX E. 61 पिण्डः शय्या वस्त्रं पात्रं वा भेषजाधं वा ॥१४५॥ देशं कालं पुरुषमवस्थामुपयोग शुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्पं नैकान्तात्कल्पते कल्पम् ॥१४६॥ तच्चिन्यं तद्भाव्यं तत्कार्य भवति सर्वथा यतिना। नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ॥१४७॥ सर्वार्थश्विन्द्रियसंगतेषु वैराग्यमार्गविनेषु । परिसङ्ख्यानं कार्य कार्य परमिच्छता नियतम् ॥१४८॥ भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ॥१४॥ निर्जरणलोकविस्तरधर्मस्खाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥१५०॥ दृष्टजनसंप्रयोगद्धिविषयसुखसंपदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥१५१॥ जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥१५॥ एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्त। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१५३॥ अन्यो ऽहं वजनात्परिजनाच्च विभवाच्छरौरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः॥१५४॥ अशुचिकरणसामर्थ्यादाधुत्तरकारणाशचित्वाच्च । देहस्याचिभावः स्थाने स्थाने भवति चिन्त्यः ॥१५५॥ १ Var. H. अपघात.

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332