Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
222
72
APPENDIX E.
तज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुःप्रापम् । चारित्रमथाख्यातं संप्राप्तस्तीर्थसत्तुल्यम् ॥ २५७॥ शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥ १५८ ॥ पूर्व करोत्यनन्तानुबन्धिनाम्नां चयं कषायाणाम् । मिथ्यात्वमोहगहनं चपयति सम्यक्त्वमिथ्यात्वम् ॥ २५८ ॥ सम्यक्त्वमोहनीयं चपयत्यष्टावतः कषायांश्च ।
क्षपयति ततो नपुंसक वेदं स्त्रीवेदमथ तस्मात् ॥ २६० ॥ हास्यादि ततः षट्कं चपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥२६१ ॥ सातितमोहो निहतक्लेशो यथा हि सर्वज्ञः । भात्यनुपलक्ष्यराहंशोन्मुक्तः पूर्णचन्द्र दूव ॥ २६२ ॥ सर्वेन्धनेकराशौक्कृत संदीप्तो अनन्तगुणतेजाः । ध्यानानलस्तपः प्रशमसंवर हविर्विद्धबलः ॥ २६३ ॥ चपकश्रेणिपरिगतः १ स समर्थः सर्वकर्मिणां कर्म । चपयितुमेको यदि कर्मसंक्रमः स्यात्परकृतस्य ॥ २६४॥ परकृतकर्मणि यस्मान्नाक्रामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥ २६५॥ मस्तकसूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः । तदत्कर्मविनाशो हि मोहनीयचये नित्यम् ॥ २६६॥ छद्मस्थवीतरागः कालं सो ऽन्तर्मुहूर्तमथ भूला ।
१. श्रेणिमुपगतः .

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332