Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
कर्मशरीरमनोवागविचेष्टितोच्छामदुःखसुखदाः स्युः ।। जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१७॥ परिणामवर्तनाविधिपरापरत्वगुणलक्षण: कालः । सम्यक्त्वज्ञानचारित्रवौर्यशिक्षागुणा जौवाः ॥२१॥ पुद्गलकर्म शुभं यत्तत्पुण्य मिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥२१६॥ योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिर्निरासवः संवरस्वतः ॥२२॥ संवृततपउपधानात्तु निर्जरा कर्मसन्ततिबन्धः । बन्धवियोगो मोक्षस्विति संक्षेपात्रवपदार्थाः ॥२२१॥ एतेष्वध्यवसायो यो ऽर्थषु विनिश्चयेन तत्त्वमिति। सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमावा ॥२२२॥ शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः परिणामो भवति निसर्गः स्वभावश्च ॥२२३॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत्प्रत्यक्ष परोक्षं च ॥२२४॥ तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ॥२२॥ एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । एकादौन्येकस्मिन् भाज्यानि त्वा चतुर्य इति ॥२२६॥ सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । R Var H. नप उपधामं तु. १H. तुभन्दात् संशयस

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332