Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
APPENDIX E.
संचिन्य कषायाणमुदयनिमित्तमुपशान्ति हेतं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्य ॥१६॥
सेव्यः शान्तिर्दिवमार्जवशौचे च संयमत्यागौ। मत्यतपोब्रह्माकिञ्चन्यानीत्येष धर्मविधिः ॥१६७॥ धर्मस्य दया मूलं न चाक्षमावान्दयां समादत्ते । तस्माद्यः क्षान्तिपरः स माधयत्युत्तमं धर्मम् ॥१६८॥ विनयायत्ताश्च गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन्मार्दवमखिलं स सर्वगुणभावमाप्नोति ॥९६८॥ नानार्जवो विशुध्यति न धर्ममाराधयत्यशद्धात्मा । धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् ॥१०॥ यट्रव्योपकरणभनपानदेहाधिकारकं शौचम् । तद्भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७१॥ पञ्चास्रवादिरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिथेति संयमः सप्तदशभेदः ॥१७॥ बांधवधनेन्द्रियसुखत्यागात्त्यक्तभयवियहः माधुः । त्यतात्मा निर्ग्रन्थस्यकाहंकारममकारः ॥१७३॥ अविसंवादनयोगः कायमनोवागजिह्यता चैव । सत्यं चतुर्विधं तच्च जिनवरमते ऽस्ति नान्यत्र ॥१७॥ अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलौनतेति बाह्यं तपः प्रोक्तम् ॥१७॥ प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः ।
१. विनयास्तयोत्सर्गः

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332