Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 308
________________ 58 APPENDIX E. शीतोष्णादिपरौषहविजयः सम्यक्वमविकम्प्यम् ॥ ११४ ॥ संसारादुद्वेगः क्षपणोपायच कर्मणां निपुणः । वैयावृत्तोद्योगस्तपोविधिर्योषितां त्यागः ॥ १ १५ ॥ विधिना भैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्या | ईर्याभाषाम्बरभाजनैषणावग्रहाः शुद्धाः ॥ ११६ ॥ स्थाननिषद्याव्युत्सर्गशब्दरूपक्रियाः परान्योन्या' । पञ्चमहाव्रतदां विमुक्तता सर्वसङ्गेभ्यः ॥ ११७॥ साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः । सम्यगनुपाल्यमानो रागादोन्मूलतो हन्ति ॥ ११८ ॥ श्राचाराध्ययनोक्तार्थभावना चरणगुप्तहृदयस्य । न तदस्ति कालविवरं यच क्वचनाभिभवनं स्यात् ॥ ११९ ॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः ॥ १२० ॥ क्षणविपरिणामधर्मा मर्त्यानाम्मृद्धि समुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥ १२१ ॥ भोगसुखैः किमनित्यैर्भयबहुलैः कांचितैः परायत्तः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥ १२२ ॥ यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो यत्नः ॥ १२३ ॥ यत्सर्वविषयकांचोद्भवं सुखं प्राप्यते सरागेण । तदनन्तकोटिगुणितं सुधैव लभते विगतरागः ॥ १२४॥ १ परक्रिया अन्योन्यक्रिया.

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332