Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
View full book text
________________
56
APPENDIX E.
1
कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ॥ ८३ ॥ गर्वं परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तं वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ ४ ॥ माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ॥ ५ ॥ संपकेद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्धा सर्वमदहरं तेनैव मदः कथं कार्यः ॥ ६ ॥ एतेषु मदस्थानेषु निश्चये न च गुणो ऽस्ति कश्चिदपि । केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च ॥९७॥ जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेष | जात्यादिहीनतां परभवे च निःसंशयं लभते ॥ ८ ॥ सर्वमदस्थानानां मूलोवातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः ॥९९॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नौचैगेचं प्रतिभव 'मनेकभवकोटिदुमेचिम् ॥ १०० ॥ कर्मोदयनिर्वृत्तं होनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥ १०१ ॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् ।
दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ॥ १०२ ॥ अपरिगणितगुणदोषः खपरोभयबाधको भवति यस्मात् । पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबद्धः ॥ १०३ ॥
१ A. प्रतिभयं .

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332