________________
Appendix E. ॥ अथ प्रशमरतिः प्रारभ्यते ॥ .
नाभेयाद्याः सिद्धार्थ राजमूनुचरमाश्चरमदेहाः । पञ्च नव दश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधंश्च । प्रशमरतिस्थैर्यार्थ वक्ष्ये जिनशासनात्किंचित् ॥२॥ यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥३॥ श्रुतबुद्धिविभवपरिहोणकस्तथाप्यहमशक्किमविचिन्य । द्रमक दवावयवोच्छकमन्वेष्टुं तत्प्रवेशेषुः ॥४॥ बहुभिर्जिनवचनार्णवपारगतैः कविषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमनननशास्त्रपद्धतयः ॥५॥ ताभ्यो विस्ताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारंपर्यादुच्छेषिकाः कृपणकेन संहत्य ॥६॥ तद्भकिबलार्पितया मयाप्यविमलाल्पया खमतिशत्या । प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् ॥७॥ यद्यप्यवगौतार्था न वा कठोरप्रकृष्टभावार्था । मद्भिस्तथापि मय्यनुकम्पैकरमैरनुग्राह्यम् ॥८॥
१ P. omits.