________________
Appendix D.
Certain passages occurring in other works, attributed to our author Umasvati but not found in the extant works, thus strengthening the tradition that our author has written 500 works.
i उक्तं च वाचकमुख्यैरुमाखातिपादैः । स्थानाङ्गवृत्तिः कृपणे ऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥ १ ॥ अभ्युदये व्यसने वा यत्किंचिद्दौयते महायार्थम् । तत्सङ्गहृतो ऽभिमतं मुनिभिर्दानं न मोचाय ॥ २ ॥ राजारचपुरोहितमधुमुखमावलदण्डपाशिषु च । यद्दीयते भयार्थं तद्भयदानं बुधैर्ज्ञेयम् ॥ २ ॥ अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः । परचित्तर क्षणार्थं लज्जायास्तद्भवेद्दानम् ॥ ४ ॥ नटनर्तसृष्टिकेभ्यो दानं संबन्धिबन्धुमित्रेभ्यः । यद्दौयते यशोर्थं गर्वेण तु तद्भवेद्दानम् ॥५॥ हिंसानृतचौ यचतपरदारपरिग्रहप्रवक्रेभ्यः ॥ यद्दौयते हि तेषां तज्जानीयादधर्माय ॥ ६ ॥ समतृणमणिमुक्रेभ्यो यद्दानं दीयते सुपाजेभ्यः । श्रचयमतुलमनन्तं तद्दानं भवति धर्माय ॥७॥
शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । श्रहमपि ददामि किंचित् प्रत्युपकाराय तद्दानम् ॥ ८ ॥