Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 701
________________ सरः ] कालोपलिष्टवर्तमानत्वनिगमनं कालस्य क्षणादिरूपत्वे पक्षभेदव 631 तत्वमुक्ताकलापः कालस्योपाधिभेदात् कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण काल: परिणमत इति प्राहु सर्वार्थसिद्धिः रूपत्वम् : इत्यत्र प्रसिद्ध पक्षमाह - कालस्येति । आदिशब्देन भूतभविष्यत्वादेरपि संग्रहः । नित्यस्यापि कालस्य द्रव्यान्तराणामिवावस्थाभेदैस्सर्वं स्यात्; अवस्थाeात्रोपाधिसंवन्धमात्ररूपा इति लवीयान् पक्षः । पक्षान्तरमाह — तत्तद्रूपेणेति । यादवप्रकाशैरभ्युपगतोऽयं पक्ष: । 'कालोऽनाद्यनन्तोऽजस्रपरिणामी मुहूर्ताहोरात्रादिविभागयुक् सर्वेषां परिणामस्पन्दहेतुः ' इति वचनात् । अयं भावः - क्षणरूप एव कालस्य सर्वदा परि। आनन्ददायिनी परिच्छेदः न तु देशपरिच्छेद इति भावः । प्रसिद्धमिति—— उपाधिपरिच्छेदस्य काणादादितन्त्रसिद्धत्वादिति भावः । आदिशब्देन वर्तमानत्वादिसंग्रहः । द्रव्यान्तराणामिवेति । तन्त्वादीनां पटाद्यवस्थाभेदेनेवेत्यर्थः । लघीयान् पक्ष इति -- अतिरिक्तपरिणामपक्षेऽप्यावश्यकत्वाल्लघुतरत्वमस्येति भावः । यादवप्रकाशवचनमुदाहरति-- कालोऽनाद्यनन्त इतीति केचित् । श्रुतिवाक्यमित्यन्ये । परिणामपक्षे क्षणलवादिव्यापिपरिणामो न स्यात् । युगपत्परिणामद्वयस्य विरुद्धत्वात् । न चेष्टापत्तिः । संवत्सरादिपरिणामकाले क्षणादिपरिणामाभावेन तद्व्यवहाराभावप्रसङ्गादित्यत्राह — अयं भाव इति । क्षणरूप एवेति — तथा च परिणामान्तरस्यानभ्युपगमात् क्षणादिव्यवहारविरोधोऽपि नास्ति मास

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746