Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 704
________________ 634 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः रेके तदा तु । ये तत्रोपाधयस्स्युस्त इह परिणति सर्वार्थसिद्धिः क्रियासंततिवत्काले परिणामपरम्परा । किं न स्यात्स्वप्रकर्षायैः परत्वादिप्रसाधिका ? ॥ एकाश्रयक्रियासंख्या काल इत्याप्तभाषितम् । कालोपाधिविशेषाणां सर्वेषामुपलक्षणम् ॥ अत्र परिणतिपक्षमजूध तत्राप्युपाधिव्याप्तिमाह—तदा विति आनन्ददायिनी क्रियासंततिवदिति-यथा क्रियाप्रकर्षः कालनिष्ठः परत्वादिहेतुः तथा विभुत्वेऽपि कालस्य तन्निष्ठः परिणामपरम्पराप्रकर्षः परत्वादिहेतुरस्तु! तथाच परत्वादेरन्यथाऽप्युपपत्तेः न तदर्थमणुत्वं कल्प्यम् । यद्वा कालसम्बन्धप्रकर्षों न परत्वं तन्नयनता वा अपरत्वम् ; अपि तु परिणामपरम्पराप्रकर्षावच्छिन्नकालयोगः परत्वं तन्नयूनतावच्छिन्नतद्योऽगोऽपरत्वम् । योगश्च न संयोगः ; अपि तु आधराधेयभा(व इति)वादिरूपसम्बन्धविशेष इति न तदर्थ कालस्याणुत्वं कल्प्यमिति भावः । नन्वणुत्वविभुत्वयोरन्यतरनिर्णयः कथम् ? इति चेत् ; लाघवेनैकत्वनिर्णयेन ; अन्यथा समस्तदेशवर्तिनां कालयोगे कल्प्यमाने अनन्तकालकल्पनाप्रसङ्गेन गौरवप्रसङ्गात् । ननु--- __एकाश्रयक्रियासङ्ख्या कालस्तस्य तु मानतः । इति ज्योतिश्शास्त्रे परिस्पन्दसंततेरेव कालत्वाभिधानात् तद्विरुद्धोक्तिविरुद्धेत्यत आह--एकाश्रयेति । एकः तपनादिः । तक्रियासङ्ख्या कालोपाधिरित्यर्थः । नन्वेवं परिणामाधुपाध्यङ्गीकारविरोध इत्यत्राहसर्वेषामिति । ननु क्रियासंख्यैव कालोऽस्तु किमर्थं तदुपाधित्वमङ्गीकर

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746