Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 699
________________ सरः] परोक्तवर्तमानत्वपरिष्करणं कालानपेक्षवर्तमानत्वनिरासः 629 सर्वार्थसिद्धिः तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः । वैवक्षिकमिहान्यश्च वर्तमानत्वमक्षतम् ।। ननु सतो विनाशप्रागभाव एव वर्तमानत्वम् । तद्विशिष्टेषु पदार्थेषु दृश्यमानेषु किं सतो वाऽसतो वाकालस्य दृश्यमानतया ? मैवम् ; कालासत्त्वपक्षस्य निरस्तत्वात् । तत्सत्त्वे तु तत्साध्यानां पूर्वापरयुगपदादिव्यवहारविशेषाणां तत्प्रतीतिपूर्वकत्वस्य स्वरसप्राप्तत्वात् । किंच अत्र सत इति वर्तमानत्वविवक्षायां किं आनन्ददायिनी त्वदुक्तस्य संभव इति भावः । इदं च शब्दसाधुत्वनिमित्तं वर्तमानत्वं शाब्दैर्विवक्षितमिति न तस्यातीतादिसाधारणस्य प्रत्यक्षविषयतासंभव इत्याह—वैवक्षिकमिति । अन्यथा अतीतागामित्वाविशेषात् भूतभाविसमस्तस्यापि तथा धीप्रसङ्ग इति प्रागुक्तदोषानतिवृत्तिरिति भावः । ननु सतो विनाशप्रागभाववत्ता(वत्तया) वर्तमानता । तद्रूपेणैव प्रत्यक्षविषयत्वात् । तदतिरिक्तस्य (कालस्य) विषयत्वाभावात्त (वात्काल) स्य सत्त्वमस्तु मा वा किं (मावा क्रिया) प्रत्यक्षत्वं साध्यते ? इति शङ्कतेनन्विति । मैवमिति-किं कालमात्रस्यापह्नवः ? उत वर्तमानकालस्येति विकल्पमभिप्रेत्य आद्य आह-कालासत्त्वपक्षस्येति । कालाभावे भूतादिव्यवहारो न स्यादिति प्रागेव निरस्तत्वादित्यर्थः । तत्सत्त्वे वितितत एव सर्वव्यवहारस्य स्वरसतस्सिद्धत्वेन क्लिष्टकल्पनाया अन्याय्यत्वादिति भावः । द्वितीयं दूषयति-किञ्चेति । तत्र किं सत इति वर्तमानत्वं विवक्षितम् ? उत प्रमाणसिद्धपदार्थस्वरूपमात्रत्वम् ? आये आहू----अत्र सत इति । तथा च विनाशप्रागभावोपश्लेषो व्यर्थः

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746