Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar

View full book text
Previous | Next

Page 700
________________ सव्याख्यसर्वार्थासाद्धेसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः विनाशप्रागभावोप श्लेषेण ? वर्तमानत्वमेव वर्तमानत्वमित्युक्तं स्यात् । अथ प्रमाण सिद्धत्वादिरूपं सत्त्वं तदाऽपि विनाशस्य प्रागभावः प्रतियोगिस्वरूपमेवेति तेन रूपेण योगिभिर्गृह्यमाणं त्रैकाकिमपि वर्तमानं स्यात् । अतोऽन्यदेव वर्तमानत्वम् । तच्च कालोपश्लेषेणैव गृह्यते । वर्तमानकालोपाधिसंबन्ध एव वस्तूनां वर्तमानत्वमित्यपि न वाच्यम् उपाधौ तदभावादवर्तमानत्वप्रसङ्गात् । उपाधिभिरेव सर्वव्यवहारनिर्णये किमप्रत्यक्षकालकल्पनया ? ।। ६८ ।। 630 कालप्रत्यक्षत्वम्. [ जडद्रव्य यदि नित्य एकः कालः । तस्य कथं परिच्छिन्नानेकस्व आनन्ददायिनी आत्माश्रयश्चेति भावः । द्वितीयं दूषयति--अथेति । ननु वर्तमानकालस्योपाधिर्यस्तत्संबन्ध एव वर्तमानताऽस्तु किं कालविशेषकल्पनयेत्यत आह---- वर्तमानकाल इति । वर्तमानकालोपाधेः स्वेन संबन्धाभावाद्वर्तमान व्यवहारो न स्यादिति भावः । उपाधिभिरिति -- न चेष्टापत्तिः ! कालस्यागमिकत्वेन श्रुत्या च पूर्वं साधितत्वादिति भावः ॥ ६८ ॥ कालप्रत्यक्षत्वम् . आक्षेपसंगतिमाह — यदीति । परिच्छिन्नेति - क्षणादिरूपेण

Loading...

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746