Book Title: Tattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Author(s): D Srinivasachar, S Narsimhachar
Publisher: D Srinivasachar, S Narsimhachar
View full book text ________________
सरः]
त्रिलोकीभ्रमणपक्षे तदुक्तयुक्तिः
583
सर्वार्थसिद्धिः इति । कैश्चित् 'उत्ताना ह वै देवगवा वहन्ति' इत्यादिनिर्वहणाय
आनन्ददायिनी नित्यं त्रिलोकी भ्रमति श्रुतिवाक्यानुसारतः ।
अतो भचक्र भ्रमति विपरीतं ग्रहान्वितम् ॥ इति गणितैकदेशिमतमनुवदति-कैश्चिदिति । भ्रमणेनोपर्यधोभावे देव
भावप्रकाशः इति चोक्तम् । भानामधश्शनैश्चरेत्यादिश्लोकेन भुवः भ्रमणं न घटते ; अपि तु स्थैर्यमेव सिध्यतीत्ययमंशः उत्तरत्रोपपादयिष्यते । सर्वग्रहभ्रमणं च
कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोचादनुलोमं प्रतिलोमं चैव श्रीघ्रोच्चात् ॥ इत्यत्रोक्तम् ।।
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इत्यत्र भुवः ग्रहेभ्यः पृथग्ग्रहणेन ग्रहत्वं नस्ति भुव इति सूचितम् । ग्रहशब्देन न भुवो ग्रहणम्--' पश्चाद्रजन्तोऽतिजवात् ' इत्यादि सूर्यसिद्धान्तोक्तषड्डिधगतिमतामेव ग्रहत्वस्य ग्रन्थकृत्समतेश्च । उदयास्तमयनिमित्तमिति श्लोकः ‘भूभगणभ्रमणसंस्थान' इत्यादिबृहत्संहिताव्याख्यानावसरे भट्टोत्पलेन भूभ्रमणवादनिरासार्थमुदाहृतः । अत्र भूभगणभ्रमणसंस्थानेत्यादिमूलस्य भमेः भगणस्य च भ्रमणसंस्थानाभिज्ञ इत्यव्याख्याय भूमेस्संस्थानाभिज्ञः इति व्याख्यानात् 'युगरविभगणाः' इत्यादिगीतिकापादतृतीयश्लोके प्राग्गत्या भगणकथनं मिथ्याज्ञानसिद्ध
Loading... Page Navigation 1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746