________________
तारायणो
ऽपि मन्दाः मन्दजात्युपलक्षिताः । अन्ये 'मया' मृगाः मृगजात्युउपलक्षिता इति । ननु च भद्रजातय एव सुहस्तिनो भवन्ति । तत्कथ सुहस्तिनोऽपि भद्रत्वं न लभन्त इति युक्तं स्यात् । अत्रोच्यते । मन्दमृगजातिषु गजेषु मध्ये ये नितान्तशोभनास्तदपेक्षया सुहस्तिन इत्युक्तम् । अतोऽयमदोषः । तदयमर्थः । न तावत् तव रिपोः सन्न्यपि सुहस्तिनः, सन्ति चेन्मन्दमृगजातय एव, तेऽपि त्वयाऽपहताः । सत्करिणां तु भद्रजातीनां देव एव भाजनम् । तथाsयमपरार्थः । हे नाथ, 'तुह रिउगो' तब रिपत्रः 'सुहत्थिणो वि' सुखार्थिनोऽपि शुभार्थिनोऽपि वा भद्रत्वं उत्साहादिमुपयोगलक्षणं शोभनत्वं तत् कथ लभन्ते । येषां तव रिपूणां द्विधैव गतिः। काऽसावित्याह । एके मन्दा रागिणोऽन्ये मृतास्यक्तप्राणाः । अन्योऽयमर्थः । भवद्भयेन निजनगरमपहाय तव रिपवः सततमनुचितकन्दमूलफलाहारेण ये जातज्वरादिरोगास्ते सुखमर्थ यमाना अपि, ये तु मृतास्ते सुखमर्थितवन्तोऽपि, कथं भद्रत्वं लभन्ते । नैव लभन्त इत्यर्थ: ॥
O Lord, how even the best of your enemy's elephants can be of the Badea species, there being for them scope only for two species ?-some of the e ephant can b: Manda (manda), others Mrga (maya).
(.Alternatively) How, O Lord, your enemies, eventhough coveting happiness (or blessedness), can attain welfare, when there are oniy no fa!es destined for them : some of them have becomc sick (mamda), while others have died (maya) (42). [24] आयासे अ-ठवितो वि कुणसि जं सुरयणं पणइ-सत्थं ।
तं विनायमउव्यो नरनाह पयावई तं सि ॥४३
प्रसिद्धा हि प्रजापतिः स्रष्टा किल 'आयासे' आकाशे स्थापयतु(?ति) सुरजनं, त्रिदशलोक करोति सृजति । 'तं पुण आयासे अ-ठषितो वि कुणसि जं सुरयण पणति(? इ)-सत्थ', तद् विज्ञातमवगतम्, हे नरनाथ, त्वमपूर्वोऽनन्यः प्रजापतिरसीति । एभिरेव पदैरयमपरोऽर्थः। तद्यथा-'आयासे' खे अस्थापयन्नपि प्रणयिसार्थ 'सुरयण' सुरत्नं सुष्टु शोभितानि रत्नानि यस्य तं' तत्तादृश प्रणयिनां सार्थ समूह यत् करोषि तद् ज्ञातमस्माभिरपूर्वः प्रजापतिः प्रजाना[6B]थस्त्वमसि । अपरोहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org