Book Title: Tarayana
Author(s): Shankuk, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
संकुअ-संकलिओ
[52] सुहउ त्ति जियइ विद्धो मरइ अविद्धो तुहच्छि-बाणेहिं ।
इय सिक्खविया केण-वि अउव्वमेयं धणुव्वेयं ॥७९
सर्वेणापि शिक्षितधनुर्वेदेन बाणों विद्धः स सुहत इति कृत्वा म्रियते । यः पुनर विद्धः स जीवति । सुतनोस्तु प्राकृतपरिनामापादित समरूपशब्दच्छलेनापूर्वा धनुर्वेदशिक्षा दर्शयति यथा--सुतनो तवाक्षिबाणा. भ्यां विद्धः 'सुहउ' त्ति सुभग इति जीवति, म्रियते तु ताभ्यामविद्ध इति शिक्षिता केनापि त्वमपूर्वमेन धनुर्वेदम् । अयमयत्रार्थः । यस्त्वया सुभग इति दृष्टः स परितुष्टो जीवति । यस्तु दुर्भग इति त्वया नावलोकितः स आत्मानमधस्तु(? न्यं) मन्यमानो म्रियते ।
He who in pierced with the arrows of your gaze, eventhough he is said to be killed effectively (suhao) lives as the fortunate one (suhao); while he who is not pierced, dies; who taught ou this sort of extraordinary archery ? (79)
[53] तरुण-जन-नयण-पडिमा-सहस्स-सबलंगि सहसि इंद-महे ।
फंस-सइण्ह-पुरंदर-रहस-कयाणुप्पवेस व्व ॥८०
तरुणजनस्य नयनप्रतिमा नयनप्रतिबिम्बनि तासां सहस्रं तेन शबलं कबुरम् अङ्ग वपुः यस्याः सा तथा तस्याः संबोधनं हे तरुणजननयनप्रतिमासहस्रशबलानि । 'सहसि' शोमसे त्वम् । क्व 'इदमहे' इन्द्रोत्सवे । कीदृशीवेत्याह । 'फंससयण्ह' इत्यादि । स्पर्शसतृष्णः साभिलाषः स चासौ पुरन्दरश्चन्द्रश्च स्पर्शसतृष्णपुरन्दरस्तेन रमसलौत्सु. क्येन कृतोऽनुप्रवेशोऽन्तलीनता यस्याः सा स्पर्शसतृष्णपुरन्दररमसकृतानुप्रवेशेव त्वं शोभसे । एतदुक्तं भवति । व्यक्तवपुषः सुतनोरिन्द्रमहे बहिरिन्द्रोत्सवमवलोकयितु निर्गतायाः पश्यतां तरुणानां नयन-सह त्रविम्बैरत्युज्ज्वलतया सक्रान्तैः शरीरं शबलितमभूदिति शरीरोज्ज्वलत्वं कथितम् । इन्द्रमहे च किलेन्द्र: सन्निहितो भवति । अतस्तन्नयनप्रतिमासहस्रशबलाङ्गी । सती सुतनुः पुरन्दरेण सहस्राक्षेण ततस्पर्शलोलेन सता कृतानुप्रवेशेव शोभत इति । कविना एवमामन्त्र्य सोत्प्रेक्ष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109