Book Title: Sramana 2014 07 10
Author(s): Ashokkumar Singh, Rahulkumar Singh, Omprakash Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
तत्त्वार्थश्लोकवार्तिक में सामान्य, विशेष ... : 13 तत्त्वार्थश्लोकवार्तिकालंकार, पुस्तक 6, पृ0 29 असर्वगतद्रव्यपरिमाणो मूर्तिरिति।- वही, पृ0 29 स्पर्शादिसंस्थानपरिमाणो मूर्तिः।- वही, पृ0 30 ननु पुद्गलाः क्रियावत्तयोपलभ्यमानाः क्रियावंत इति युक्तम् ।- वही पृ0 46 कश्चिदाह धर्माधर्मकालणवो जीवाश्च नामूर्तयो असर्वगतद्रव्यत्वात् पुद्गलवत्, स्याद्वादिभिस्तेषामसर्वगतद्रव्यत्वाभ्युपगमान्नात्राऽसिद्धो हेतु.....सोऽत्र प्रष्टव्यः का पुनरियं मूर्तिरिति? असर्वगतद्रव्यपरिमाणो मूर्तिरिति चेत्तर्हि न सर्वगतद्रव्यपरिमाणवन्तो धर्मादय इति साध्यमायातं तथा च सिद्धसाधनम् । तत्त्वार्थश्लोकवार्तिकालंकार, पुस्तक 6, पृ0 29 अथ स्पर्शादिसंस्थानपरिणामो मूर्तिस्तद्भावान्नामूर्तयो धर्मादय इति साध्यं तदानुमानबाधितः पक्षः कालात्ययापदिष्टश्च हेतुः।- तत्त्वार्थश्लोकवार्तिकालंकार, पुस्त क 6, पृ0 30 तथाहि धर्मादयो न मूर्तिमन्तः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदित्यनुमानं विवादाध्यासितद्रव्याणाममूर्तित्वसाधयत्येव । सुखादिपर्यायेष्वभावाद् भागासिद्धत्वं हेतोरिति चेत् तेषामपक्षीकृतत्वात्।- वही, पृ0 30 कुतस्तेषाममूर्तित्वसिद्धिः? साधनान्तरादित्यभिधीयते। सुखादयोदऽप्यमूर्तद्रव्यपर्यायाः न मूर्तिमन्तः अमूर्तद्रव्यपर्यायत्वादाकाशपर्यायवत् । मूर्तिमद्रव्यपर्यायाणां रूपादीनां कथममूर्तित्वसिद्धिरिति चेन्न कथमपि तेषां स्वयं मूर्तितत्वात्। मूर्त्तत्यन्तराभावात् तेषाममूर्तित्वं गुणत्वादेः सिद्धयति गुणानां निर्गुणत्वात्।- वही, पृ0 30 एतेन सामान्यविशेषसमवायानां सदृशेतरपरिणामाविश्वगभावलक्षणानां मूर्तिदद्रव्याश्रयाणां कर्मणां च मूर्त्तत्वममूर्तित्वं चिन्तितं बोद्धव्यम् । तेषाममूर्तित्वमेवेत्यपि प्रत्याख्यातं, तेन यदुक्तं गुणकर्मसामान्यविशेषसमवाया अमूर्तय एवेति तदयुक्तं, प्रतीतिविरोधात् ।- वही, पृ0 31 तल्लक्षणं तु नित्यत्वे सत्यनेकसमवेतत्वम्- न्यायसिद्धान्तमुक्तावली, प्रत्यक्ष खण्ड, मोतीलाल बनारसीदास, दिल्ली, पृ0 33 सामान्य द्विप्रकारं तिर्यक्सामान्यमूर्ध्वतासामान्यंच। प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं, शबलशाबलेयादिपिण्डेषु गोत्वं यथा। पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं, कटककंकणाद्यनुगामि काञ्चनवत् ।प्रमाणनयतत्त्वालोक, वादिदेवसूरि, पंचम परिच्छेद, सूत्र 3-5 नित्यद्रव्ये ष्वाकाशकालादिगात्ममनस्सु प्रतिद्रव्यमे कैशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः।- प्रशस्तपादभाष्य, विशेष निरूपण प्रकरण, पृ० 766 अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवाय ।प्रशस्तपादभाष्य, समवाय प्रकरण, पृ0 733 घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ।।- कारिकावली, 11 प्रशस्तपादभाष्य, गुणप्रकरण, पृ0 229
*****

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122