Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[उताऽकरिष्यत् ] उत प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'डुकंग करणे' (८८८) कृ । क्रियातिपत्तिः स्यत् । 'स्ताद्यशितो'० (४।४।३२) इट् । 'नामिनो'० (४।३।१) गु० अर् । 'अड् धातोरादि'० (४।४।२९) अट् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । । [अप्यकरिष्यत्] अपि प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'अकरिष्यत्' पूर्ववत् ॥छ।।
संभावनेऽलमर्थे तदर्थानुक्तौ ॥ ५।४।२२ ॥ [संभावने] संभावन सप्तमी ङि । [अलमर्थे ] अलमोऽर्थः = अलमर्थस्तस्मिन् ।
[ तदर्थानुक्तौ] तस्य-अलमोऽर्थस्तदर्थः । वचनं = उक्तिः । न उक्तिरनुक्तिः । तदर्थस्य अनुक्तिः = तदर्थानुक्तिस्तस्याम् ।
शक्यसंभावने - [अपि मासमुपवसेत् ] अपि संभावने । मास द्वितीया अम् । उपपूर्व० 'वसं निवासे' (९९९) वस् । सप्तमी यात् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'यः सप्तम्याः ' (४।२।१२२) या० → इ० । 'अवर्णस्येव'० (१।२।६) ए । उपवासं कुर्यादित्यर्थः ।
[अपि पुण्डरीकाध्ययनमह्नाऽधीयीत ] 'अपि' पूर्ववत् । पुण्डरीकाध्ययन द्वितीया अम् । 'अधीयीत' पूर्ववत् (५।४।२०)।
[अपि स्कन्दकोद्देशं यामेनाधीयीत ] 'अधीयीत' पूर्ववत् (१।४।२०) ।
अशक्यसंभावने - [अपि शिरसा पर्वतं भिन्द्यात् ] अपि - शिरस् तृतीया टा । पर्वत द्वितीया अम् । 'भिदंपी विदारणे' (१४७७) भिद् । सप्तमी यात् । 'रुधां स्वराच्थ्नो नलुक च' (३।४।८२) श्नप्र० , न । 'श्ना-ऽस्त्योर्लक' (४।२।९०) अकारस्य लुक् ।
[अपि खारीपाकं भुञ्जीत ] अपि । खारीपाक द्वितीया अम् । 'भुञ्जीत' पूर्ववत् (५।४।२०) ।
[अपि समुद्रं दोर्ध्या तरेत् ] दोस् तृतीया भ्याम् । 'सो रुः' (२।१।७२) स० → र० । 'तृ प्लवन-तरणयोः' (२७) तृ । सप्तमी यात् । कर्तर्य'० (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० अर् । 'यः सप्तम्याः (४।२।१२२) या० → इ० । 'अवर्णस्येव'० (१२।६) ए।
[निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति] निदेशे तिष्ठतीत्येवंशीलः = निदेशस्थायी । 'अजातेः शीले' (५।१११५४) णिन्प्र० →इन् । 'आत ए: कृऔ' (४।३५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । मे षष्ठी ङस् । प्रायेण प्रथमा सि । 'अव्ययस्य' (३२७) सिलुप्-तृतीयान्तो वा ।
[शक्तश्चैत्रो धर्मं करिष्यति ] 'शक्लृट् शक्तौ' (१३००) शक् । शक्नोतीति शक्तः । 'ज्ञानेच्छाऽर्चाऽर्थ'० (५।२।९२) क्तप्र० → त ।
अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिर्भवति -
[अपि पर्वतं शिरसाऽभेत्स्यत् ] 'भिदंपी विदारणे' (१४७७) भि । क्रियातिपत्तिः स्यत् । "लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि'० (४।४।२९) अट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/49aeeeae232615e37fe14539272109d53b09d1375eb67f87f802b8b87a89735b.jpg)
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400