Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमाध्यायस्य चतुर्थः पादः ॥
३०१
कश्चिदाह - [समुद्रः शोषयितुमशक्यः ] 'शुषंच् शोषणे' (१२०८) शुष् । शुष्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । शोषणाय = शोषयितुम् । 'क्रियायां क्रियार्थायां तुम्'० (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
स आह -[समुद्रमपि शोषयाणि] शोषि ण्यन्तो मण्ड्यते । मतान्तरे पञ्चमी आनिवप्र० → आनि । 'कर्तर्यन'. (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'र-घृवर्णान्नो ण'० (२।३।६३) णत्वम् ।
[पर्वतमप्युत्पाटयानि] 'पट गतौ' (१९५) पट्, उत्पूर्व० । उत्पटन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । मतान्तरे पञ्चमी आनिवप्र० → आनि । 'कर्तर्यन'० (३।४/७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ॥छ।।
माङयद्यतनी ॥ ५।४।३९ ॥
[माङि] माङ् सप्तमी ङि । [अद्यतनी] अद्यतनी प्रथमा सि ।
[मा कार्षीदधर्मम्] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'डुकंग करणे' (८८८) क । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै०' (४।३।४४) वृद्धिः आर् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । अधर्मम् ।
[मा हार्षीत् परस्वम् ] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप । 'हंग हरणे' (८८५) ह। अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै समान'० (४।३।४४) वृ० आर् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'अड् धातोरादि'० (४।४।२९) अट् । परस्वम् ॥छ।।
सस्मे शस्तनी च ॥ ५।४।४० ॥ [सस्मे ] सह स्मेन वर्तते, तेन(तस्मिन्) । 'सहस्य सोऽन्यार्थे (३।२।१४३) सहस्य सभावः । [शस्तनी] ह्यस्तनी प्रथमा सि । [च] च प्रथमा सि ।
[मा स्म करोत् ] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'डुकंग करणे' (८८८) कृ । ह्यस्तनी दिव् → त् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो'० (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ ।
[मा स्म कार्षीत् ] मा स्म प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । 'कार्षीत्' पूर्ववत् (५।४।३९) ।
[मा चैत्र ! स्म हरः परद्रव्यम् ] 'हंग् हरणे' (८८५) ह । ह्यस्तनी सिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० अर् ॥छ।।
धातोः संबन्धे प्रत्ययाः ॥५।४।४१ ॥ [धातोः ] धातु षष्ठी ङस् । [संबन्धे ] संबन्धनं = संबन्धस्तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f206c8cf3c1dbaefea8be00bde4beb22e312df23818a03528774f6dc6d000d75.jpg)
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400