Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 331
________________ ३१४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [विन्दजीवः ] विन्दश्च जीव् च = विन्दजीव, तस्मात् = विन्दजीवः । पञ्चमी ङसि । [भावद्वेदं भुङ्क्ते ] यावत् 'विद्रोंती लाभे' (१३२२) विद् । यावतो वेदनम् = यावद्वेदम् । अनेन णम्प्र० → अम् । 'लघोरुपा०' (४।३।४) गु० ए । 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । वर्त० ते । 'रुधां स्वरा०' (३।४।८२) श्नप्र० → न० । 'श्ना-ऽस्त्योर्लुक्' (४।२।९०) अलोपः । 'च-जः क-गम्' (२।१२८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ग० → क० । 'म्नां धुड्वर्गे०' (१।३।३९) न० → ङ० । [यावज्जीवमधीते] यावत् 'जीव प्राणधारणे' (४६५) जीव् । यावतो जीवनम् = यावज्जीवम् । अनेन णम्प्र० → अम् । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'तवर्गस्य श्चवर्ग०' (११३६०) द० → ज० । 'इंङ्क् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त० ते । 'समानानां०' (१।२।१) दीर्घः । यावज्जीवति तावदधीते इत्यर्थः ॥छ।। चर्मोदरात् पूरेः ॥ ५।४।५६ ॥ [चर्मोदरात् ] चर्म च उदरं च = चर्मोदरम्, तस्मात् = चर्मोदरात् । पञ्चमी ङसि । [पूरेः] पूरि पञ्चमी ङसि । [चर्मपूरमास्ते ] चर्मन् 'पूरैचि आप्यायने' (१२६८) पूर् । 'पूरण आप्यायने' (१७४९) पूर् । चर्मणः पूरणम् = चर्मपूरम् । अनेन णम्प्र० → अम् । 'आसिक् उपवेशने' (१११९) आस् । वर्त० ते । चर्म पूरयित्वाऽऽस्ते इत्यर्थः । [उदरपूरं शेते ] उदर-पूर् । उदरस्य पूरणम् = उदरपूरम् । अनेन णम्प्र० → अम् । 'शीङ्क् स्वप्ने' (११०५) शी । वर्त० ते । 'शीङ ए: शिति' (४।३।१०४) शी० → शे० । उदरं पूरयित्वा शेते इत्यर्थः ॥छ।। वृष्टिमान ऊलुक् चास्य वा ॥ ५।४५७ ॥ [वृष्टिमाने] 'वृषू सेचने' (५२७) वृष् । वर्षणम् = वृष्टिः । क्तिप्र० → ति । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ति० → टि० । 'मांङ्क् मान-शब्दयोः' (११३७) मा । मीयते = मानम् । अनट्प्र० → अन । सि-अम् । वृष्टेर्मानम् = वृष्टिमानम्, तस्मिन् । [ऊलुक्] ऊवर्णस्य लुक् = ऊलुक् । [च] च प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [अस्य] इदम् षष्ठी ङस् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [गोष्पदनं - गोष्पदपूरं वृष्टो मेघः] गोः पदम् = गोष्पदम् । 'वर्चस्कादिष्व०' (३।२।४८) षोऽन्तः । 'पूरैचि आप्यायने' (१२६८) पूर् । 'पूरण आप्यायने' (१७४९) पूर् । गोष्पदस्य पूरणम् = गोष्पदप्रम् - गोष्पदपूरम् । अनेन णम्प्र० → अम् - पूर ऊकारस्य लुग्वा । यावता गोष्पदं पूर्यते तावत्प्रमाणो मेघो वृष्ट इत्यर्थः । [सीताप्रं-सीतापूरं वृष्टो मेघः] सीता-हलदण्डस्य पद्धतिर्लेखेत्यर्थः । सीतायाः पूरणम् = सीताप्रम् - सीतापूरम् । अनेन णम्प्र० → अम् - पूर ऊकारस्य लुग्वा । यावता सीता पूर्यते तावत्प्रमाणो मेघो वृष्ट इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400