Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 351
________________ ३३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ अन्वग्भूत्वा विजयते शत्रुः ] अन्वग् भवनं = अन्वग् भूत्वा विजयते शत्रुः । पश्चाद् भूत्वेत्यर्थः ॥छ इच्छार्थे कर्मणः सप्तमी ॥ ५।४।८९ ॥ [ इच्छार्थे ] इच्छा अर्थो यस्य सः = इच्छार्थस्तस्मिन् । [कर्मणः ] कर्मन् पञ्चमी ङसि । [ सप्तमी ] सप्तमी प्रथमा सि । कर्मभूतात् धातोरिति कोऽर्थः ? कर्मभूतधात्वर्थवाचिनो धातोरित्यर्थः । [ भुञ्जीयेतीच्छति ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । सप्तमी ईय । 'रुधां स्वरानो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना - ऽस्त्योर्लुक्' (४/२/९०) अलुक् । इति प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । भुज्यर्थस्य कर्मत्वद्योतनार्थमितिशब्दः । 'इषत् इच्छायाम् ' (१४१९) इष् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० अ । 'गमिषद्यमश्छः' (४।२।१०६ ) षस्य छ० । 'स्वरेभ्यः' (१|३|३०) छस्य द्विः । 'अघोषे प्रथमोऽशिट : ' (१1३1५०) छस्य च० । [ भुञ्जीयेति वाञ्छति ] 'भुञ्जीयेति' पूर्ववत् । 'वाछु इच्छायाम् ' (१२२) वाछ् । 'उदितः स्वरान्नोऽन्तः ' ( ४१४१९८ ) नोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यन' ० (३।४।७१) शव् । [भुञ्जीयेति कामयते ] 'भुञ्जीयेति' पूर्ववत् । 'कमूङ् कान्तौ' (७८९) कम् । 'कर्मर्णिङ्' ( ३।४।२) णिङ्प्र० इ । ‘ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वर्त्त ० ते । 'कर्त्तर्यन' ० (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ भोजको व्रजति ] भुज् । भोक्ष्ये = भोजक: । 'क्रियायां क्रियार्थायां तुम्' ० (५।३।१३) णकच्प्र० अक 1 'लघोरुपान्त्यस्य' ० (४ | ३ | ४) गु० ओ, व्रजति । [ इच्छन् करोति ] 'इषत् इच्छायाम्' (१४१९) इष् । इच्छतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'तुदादेः श:' ( ३।४।८१) शप्र० अ । 'गमिषद्यमश्छः' (४/२/१०६) षस्य छ० । 'स्वरेभ्यः' (१|३|३०) • छस्य द्विः । 'अघोषेः'० (१।३।५०) छस्य च० । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'पदस्य' (२२११८९) तलुक् । अत्र करोतीच्छत्योर्लक्ष्य-लक्षणभावो न तु कर्म- क्रियाभावः । [ इच्छामि भुङ्क्तां भवान् ] 'इषत् इच्छायाम्' (१४१९) इष् । वर्त्त० मिव् । 'कर्त्तर्यन' ० (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६ ) षस्य छ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्विः । 'अघोषे ' ० ( १।३।५०) छस्य च० । 'मव्यस्याः' (४।२।११३) दीर्घः । 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । पञ्चमी ताम् । 'रुधां स्वरा' ० (३२४८२) श्नप्र० → न । श्ना - ऽस्त्योर्लुक्' (४।२।९०) अलुक् । 'च-ज: क- गम्' (२२११८६) ज०ग० । 'अघोषे '० (१।३।५०) ग० क० । 'म्नां धुड्' ० ( ११३/३९) न० ङ०, भवान् ॥छा शक- धृष-ज्ञा-रभ-लभ - सहा - उर्हग्ला - घटा ऽस्ति समर्थाऽर्थे च तुम् ॥ ५४९० ॥ [ शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाऽर्थे ] शक्श्च धृषश्च ज्ञाश्च रभश्च लभश्च सहश्च अर्हश्च ग्लाश्च घटश्च अस्तिश्च समर्थश्च = शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाः । शकधृषज्ञार भलभसहाऽर्हग्लाघटाऽस्तिसमर्थानां अर्था यस्य तत् = शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाऽर्थम्, तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400