________________
३३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ अन्वग्भूत्वा विजयते शत्रुः ] अन्वग् भवनं = अन्वग् भूत्वा विजयते शत्रुः । पश्चाद् भूत्वेत्यर्थः ॥छ इच्छार्थे कर्मणः सप्तमी ॥ ५।४।८९ ॥
[ इच्छार्थे ] इच्छा अर्थो यस्य सः = इच्छार्थस्तस्मिन् ।
[कर्मणः ] कर्मन् पञ्चमी ङसि ।
[ सप्तमी ] सप्तमी प्रथमा सि ।
कर्मभूतात् धातोरिति कोऽर्थः ? कर्मभूतधात्वर्थवाचिनो धातोरित्यर्थः ।
[ भुञ्जीयेतीच्छति ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । सप्तमी ईय । 'रुधां स्वरानो नलुक् च' (३।४।८२) श्नप्र० → न । 'श्ना - ऽस्त्योर्लुक्' (४/२/९०) अलुक् । इति प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । भुज्यर्थस्य कर्मत्वद्योतनार्थमितिशब्दः । 'इषत् इच्छायाम् ' (१४१९) इष् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० अ । 'गमिषद्यमश्छः' (४।२।१०६ ) षस्य छ० । 'स्वरेभ्यः' (१|३|३०) छस्य द्विः । 'अघोषे प्रथमोऽशिट : ' (१1३1५०) छस्य च० ।
[ भुञ्जीयेति वाञ्छति ] 'भुञ्जीयेति' पूर्ववत् । 'वाछु इच्छायाम् ' (१२२) वाछ् । 'उदितः स्वरान्नोऽन्तः ' ( ४१४१९८ ) नोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यन' ० (३।४।७१) शव् ।
[भुञ्जीयेति कामयते ] 'भुञ्जीयेति' पूर्ववत् । 'कमूङ् कान्तौ' (७८९) कम् । 'कर्मर्णिङ्' ( ३।४।२) णिङ्प्र० इ । ‘ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वर्त्त ० ते । 'कर्त्तर्यन' ० (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ भोजको व्रजति ] भुज् । भोक्ष्ये = भोजक: । 'क्रियायां क्रियार्थायां तुम्' ० (५।३।१३) णकच्प्र० अक 1 'लघोरुपान्त्यस्य' ० (४ | ३ | ४) गु० ओ, व्रजति ।
[ इच्छन् करोति ] 'इषत् इच्छायाम्' (१४१९) इष् । इच्छतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'तुदादेः श:' ( ३।४।८१) शप्र० अ । 'गमिषद्यमश्छः' (४/२/१०६) षस्य छ० । 'स्वरेभ्यः' (१|३|३०) • छस्य द्विः । 'अघोषेः'० (१।३।५०) छस्य च० । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'पदस्य' (२२११८९) तलुक् । अत्र करोतीच्छत्योर्लक्ष्य-लक्षणभावो न तु कर्म- क्रियाभावः ।
[ इच्छामि भुङ्क्तां भवान् ] 'इषत् इच्छायाम्' (१४१९) इष् । वर्त्त० मिव् । 'कर्त्तर्यन' ० (३।४।७१) शव् । 'गमिषद्यमश्छः' (४।२।१०६ ) षस्य छ० । 'स्वरेभ्यः' (१।३।३०) छस्य द्विः । 'अघोषे ' ० ( १।३।५०) छस्य च० । 'मव्यस्याः' (४।२।११३) दीर्घः । 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । पञ्चमी ताम् । 'रुधां स्वरा' ० (३२४८२) श्नप्र० → न । श्ना - ऽस्त्योर्लुक्' (४।२।९०) अलुक् । 'च-ज: क- गम्' (२२११८६) ज०ग० । 'अघोषे '० (१।३।५०) ग० क० । 'म्नां धुड्' ० ( ११३/३९) न० ङ०, भवान् ॥छा
शक- धृष-ज्ञा-रभ-लभ - सहा - उर्हग्ला - घटा ऽस्ति समर्थाऽर्थे च तुम् ॥ ५४९० ॥
[ शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाऽर्थे ] शक्श्च धृषश्च ज्ञाश्च रभश्च लभश्च सहश्च अर्हश्च ग्लाश्च घटश्च अस्तिश्च समर्थश्च = शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाः । शकधृषज्ञार भलभसहाऽर्हग्लाघटाऽस्तिसमर्थानां अर्था यस्य तत् = शकधृषज्ञारभलभसहाऽर्हग्लाघटाऽस्तिसमर्थाऽर्थम्, तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org