________________
पञ्चमाध्यायस्य चतुर्थः पादः ॥
३३३
पए।
[ द्वेधा कृत्वा द्वेधाकृत्य, द्वेधाकारं गतः ] द्वेधा करणं पूर्वं = द्वेधा कृत्वा, द्वेधाकृत्य, द्वेधाकारं गतः । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् ।
[ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यंभावमास्ते] एकेन प्रकारेण = ऐकध्यम् । 'वैकाद् ध्यमञ्' (७।२।१० ध्यमप्र० । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । ऐकध्यं भवनं पूर्व = ऐकध्यं भूत्वा, ऐकध्यंभूय, ऐकध्यंभावमास्ते । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् । __ [ऐकध्यं कृत्वा, ऐकध्यंकृत्य, ऐकध्यंकारं गतः] ऐकध्यं करणं पूर्वं = ऐकध्यं कृत्वा, ऐकध्यंकृत्य, ऐकध्यंकारं गतः । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् ।
धणस्तु प्रकारविचालवदर्थत्वेनाधार्थत्वाद् अव्ययाधिकाराच्च निरासः । अव्ययाधिकारादेव अव्ययत्वाभावश्चास्य । 'अधण्तस्वाद्या शसः' (१।१।३२) इत्यत्र वर्जनात् ।
[सर्वतो भूत्वाऽऽस्ते] सर्वस्मात् = सर्वतः । 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित्तस्' (७।२।८९) पित्तस्प्र० । सर्वतो भवनं पूर्वं = सर्वतो भूत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा, आस्ते ।
[मुखे भूत्वा गतः] मुख सप्तमी ङि । भवनं पूर्वं = भूत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । [नाना कृत्वा भक्ष्याणि भुङ्क्ते ] नाना करणं पूर्वं = कृत्वा । 'प्राक्काले' (१।४।४७) क्त्वाप्र० → त्वा ।
[द्विधा कृत्वा काष्ठानि गतः ] द्विधा पूर्ववत् । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ॥छ।
तूष्णीमा ॥ ५।४।८७ ॥ [तूष्णीमा ] तूष्णीम् तृतीया टा ।
[तूष्णीं भूत्वा, तूष्णीभूय, तूष्णींभावमास्ते ] तूष्णीम् ‘क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३।२७) अम्लुप् । तूष्णीं भवनं पूर्वं = तूष्णीं भूत्वा, तूष्णीभूय, तूष्णींभावमास्ते । अनेन क्त्वा-णम्प्र० । शेषं पूर्ववत् । तूष्णींशब्दो मौने तद्वति च, तेनायमर्थो मौनेन सह भूत्वा = मौनवान् भूत्वा आस्ते छ।।
___आनुलोम्येऽन्वचा ॥ ५।४।८८ ॥ [आनुलोम्ये ] अनुगतानि लोमानि अस्याऽसावनुलोमः । 'प्रत्यन्ववात् साम-लोम्नः' (७।३।८२) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्त्यस्वरादिलुक् । अनुलोमस्य भावः = आनुलोम्यम्, तस्मिन् । 'पतिराजान्त'. (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे'० (७४|१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[अन्वचा] अन्वच् तृतीया टा । आनुलोम्यमनुकूलता-परचित्ताराधनम् ।
[अन्वग् भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते] अनु 'अञ्चू गतौ च' (१०५) अञ्च् । अन्वञ्चतीति, अन्वक् । क्विप्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अन्वचि देशे = अन्वक् । 'दिक्शब्दाद् दिग्-देश-कालेषु प्रथमा-पञ्चमी-सप्तम्याः' (७।२।११३) धाप्र० । 'लुबञ्चेः' (७।२।१२३) धालुप् । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३३२१७) अम्लुप् । अन्वग्भवनं पूर्वं = अन्वग् भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । अनेन क्त्वा-णम्प्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अनुकूलो भूत्वा तिष्ठतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org