Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 345
________________ ३२८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते ] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहं गेहमनुप्रपादम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'वीप्सायाम्' (७।४।८०) द्विवचनम् । [गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहमनुप्रपादमनुप्रपादम् । अनेन णम्प्र० → अम् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'भृशा-ऽऽभीक्ष्ण्याऽविच्छेदे'० (७४/७३) द्विर्वचनम् । [गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते ] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्द्य = गेहं गेहमवस्कन्दम् । अनेन णम्प्र० → अम् । 'वीप्सायाम्' (७।४।८०) द्विः । [गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्त्वा = गेहमवस्कन्दमवस्कन्दम् । अनेन णम्प्र० → अम् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे'० (७४/७३) द्विवचनम् । पक्षे - [गेहं गेहमनुप्रविश्यास्ते] गेह द्वितीया अम् । 'वीप्सायाम्' (७४।८०) द्विः । अनुप्रवेशनं पूर्वं = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । [गेहमनुप्रविश्याऽनुप्रविश्यास्ते ] गेहमनुप्रवेशनं पूर्व = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे' ० (७।४।७३) द्विवचनम् । वीप्सायामुपपदस्य, आभीक्ष्ण्ये तु धातोर्विचनम् । [गेहानुप्रवेशमास्ते] गेहं(२) अनुप्रविश्य = गेहानुप्रवेशम् । यद्वा गेहमनुप्रविश्य अनुप्रविश्य = गेहानुप्रवेशम् । अनेन णम्प्र० इत्यादौ तु वीप्साक्षीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विवचनं न भवति । आभीक्ष्ण्ये णम् सिद्ध एव, 'तृतीयोक्तं वा' (३।१५०) इत्यनेन विकल्पेनोपपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् ॥छ। कालेन तृष्यस्वः क्रियान्तरे ॥ ५।४।८२ ॥ [कालेन] काल तृतीया टा । [तृष्यस्वः] तृषिश्च असूश्च = तृष्यसूः, तस्मात् । [क्रियान्तरे ] अन्तरं करोति । “णिज्बहुलं'. (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । क्रियामन्तरयतीति क्रियान्तरः, तस्मिन् । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । [द्वयहं तर्ष, द्वयहतर्षं गावः पिबन्ति] द्वि-अहन् मण्ड्यते । द्वयोरनोः समाहारः, द्वे अनी समाहृते वा । 'द्विगोरन्नह्नोऽट्' (७।३।९९) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । द्वि० अम् । 'कालाध्वनोळप्तौ' (२।२।४२) इत्यनेन द्वितीया । 'जितषच पिपासायाम्' (१२१२) तृष । व्यहं तषित्वा = व्यहं तष-व्यहतर्षम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [व्यहमत्यासं, द्वयहात्यासं गावः पिबन्ति ] अति ‘असूच क्षेपणे' (१२२१) अस् । व्यहमत्यस्य = व्यहमत्यासंव्यहात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ | गाव:-प्रथमा जस् । पिबन्ति । तर्षेण अत्यासेन च गवां पानक्रिया व्यधीयते, अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । [अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति] अन्तर्मुहूर्त द्वितीया अम् । अन्तर्मुहूर्तमत्यस्य = अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सम्यक् पश्यन्ति । सम्यग्दृष्ट्वाऽन्तर्मुहूर्त मिथ्यात्वमनुभूय पुनः सम्यगद्रष्टयो भवन्तीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400