________________
३२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते ] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहं गेहमनुप्रपादम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'वीप्सायाम्' (७।४।८०) द्विवचनम् ।
[गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते] अनु-प्रपूर्व० 'पदिच् गतौ' (१२५७) पद् । गेहमनुप्रपद्य = गेहमनुप्रपादमनुप्रपादम् । अनेन णम्प्र० → अम् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'भृशा-ऽऽभीक्ष्ण्याऽविच्छेदे'० (७४/७३) द्विर्वचनम् ।
[गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते ] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्द्य = गेहं गेहमवस्कन्दम् । अनेन णम्प्र० → अम् । 'वीप्सायाम्' (७।४।८०) द्विः ।
[गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द्, अवपूर्व० । गेहमवस्कन्त्वा = गेहमवस्कन्दमवस्कन्दम् । अनेन णम्प्र० → अम् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे'० (७४/७३) द्विवचनम् । पक्षे -
[गेहं गेहमनुप्रविश्यास्ते] गेह द्वितीया अम् । 'वीप्सायाम्' (७४।८०) द्विः । अनुप्रवेशनं पूर्वं = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ।
[गेहमनुप्रविश्याऽनुप्रविश्यास्ते ] गेहमनुप्रवेशनं पूर्व = अनुप्रविश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'भृशा-ऽऽभीक्ष्ण्या -ऽविच्छेदे' ० (७।४।७३) द्विवचनम् ।
वीप्सायामुपपदस्य, आभीक्ष्ण्ये तु धातोर्विचनम् ।
[गेहानुप्रवेशमास्ते] गेहं(२) अनुप्रविश्य = गेहानुप्रवेशम् । यद्वा गेहमनुप्रविश्य अनुप्रविश्य = गेहानुप्रवेशम् । अनेन णम्प्र० इत्यादौ तु वीप्साक्षीक्ष्ण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते इति द्विवचनं न भवति ।
आभीक्ष्ण्ये णम् सिद्ध एव, 'तृतीयोक्तं वा' (३।१५०) इत्यनेन विकल्पेनोपपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् ॥छ।
कालेन तृष्यस्वः क्रियान्तरे ॥ ५।४।८२ ॥ [कालेन] काल तृतीया टा । [तृष्यस्वः] तृषिश्च असूश्च = तृष्यसूः, तस्मात् ।
[क्रियान्तरे ] अन्तरं करोति । “णिज्बहुलं'. (३।४।४२) णिचप्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलुक् । क्रियामन्तरयतीति क्रियान्तरः, तस्मिन् । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् ।
[द्वयहं तर्ष, द्वयहतर्षं गावः पिबन्ति] द्वि-अहन् मण्ड्यते । द्वयोरनोः समाहारः, द्वे अनी समाहृते वा । 'द्विगोरन्नह्नोऽट्' (७।३।९९) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । द्वि० अम् । 'कालाध्वनोळप्तौ' (२।२।४२) इत्यनेन द्वितीया । 'जितषच पिपासायाम्' (१२१२) तृष । व्यहं तषित्वा = व्यहं तष-व्यहतर्षम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[व्यहमत्यासं, द्वयहात्यासं गावः पिबन्ति ] अति ‘असूच क्षेपणे' (१२२१) अस् । व्यहमत्यस्य = व्यहमत्यासंव्यहात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ | गाव:-प्रथमा जस् । पिबन्ति । तर्षेण अत्यासेन च गवां पानक्रिया व्यधीयते, अद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः ।
[अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति] अन्तर्मुहूर्त द्वितीया अम् । अन्तर्मुहूर्तमत्यस्य = अन्तर्मुहूर्तमत्यासमन्तर्मुहूर्तात्यासम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सम्यक् पश्यन्ति । सम्यग्दृष्ट्वाऽन्तर्मुहूर्त मिथ्यात्वमनुभूय पुनः सम्यगद्रष्टयो भवन्तीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org