________________
पञ्चमाध्यायस्य चतुर्थः पादः ।।
३२७
परिक्लेश्येन ॥ ५।४।८० ॥ [परिक्लेश्येन] परि क्लिशै(शि)च् परि(उप)तापे (१२७६) क्लिश् । परि-समन्तात् क्लिश्यमानं-पीड्यमानं = परिक्लेश्यम्, तेन = परिक्लेश्येन । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए।
ध्रुवार्थोऽयमारम्भः ।
[उरांसि प्रतिपेषमुरःप्रतिपेषं युध्यन्ते ] 'पिष्लूप् संचूर्णने' (१४९३) पिष्, प्रतिपूर्व० । उरांसि प्रतिपेषमुरःप्रतिपेषम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । उरांसि परितः पीडयन्तो युध्यन्त इत्यर्थः ।
[शिरांसि च्छेदं, शिरश्छेदं युध्यन्ते ] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । शिरांसि छिद्य(छित्त्वा) = शिरांसि च्छेदं-शिरश्छेदम्। अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । शिरांसि छिन्दन्तो युध्यन्त इत्यर्थः ।
पक्षे - [उरांसि प्रतिपिष्य युध्यन्ते] उरस् द्वितीया शस् । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'धुटां प्राक् (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । प्रतिपेषणं पूर्वं = प्रतिपिष्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) क्त्वा → यप्० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
[शिरांसि छित्त्वा युध्यन्ते] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । छेदनं पूर्वं = छित्त्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अघोषे'० (१।३।५०) द० → त० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ॥छ।।
विश-पत-पद-स्कन्दो वीप्सा-ऽऽभीक्ष्ण्ये ॥ ५।४।८१ ॥ [विशपतपदस्कन्दः ] विशश्च पतश्च पदश्च स्कन्द् च = विशपतपदस्कन्द, तस्मात् । [वीप्साऽऽभीक्ष्ण्ये] वीप्सा च आभीक्ष्ण्यं च = वीप्साऽऽभीक्ष्ण्यम्, तस्मिन् ।
श्रुतत्वाद् विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा = वीप्सा । प्रकृत्यर्थस्य , पौनःपुण्यस्यासेवनमाभीक्ष्ण्यम् । अनुष्ठातुमारब्धाया क्रियाया व्यापारा(रे)तरपरिहारेणानुष्ठानमाभीक्षीक्ष्ण्यमित्यर्थः । यदाहुः - सुप्सु सुबन्तेषु स्याद्यन्तेषु वीप्सा, तिषु त्याद्यन्तेषु अव्ययकृत्सु क्तादिषु चाभीक्ष्ण्यम् । __ [गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते ] अनु-प्रपूर्व० 'विशंत् प्रवेशने' (१४१५) विश् । गेहमनुप्रविश्य = गेहं गेहमनुप्रवेशं-गेहानुप्रवेशम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'वीप्सायाम्' (७।४।८०) द्विवचनम् ।
[गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते ] गेहमनुप्रविश्य = गेहमनुप्रवेशमनुप्रवेशम् । अनेन णम्प्र० → अम् । 'भृशा-5ऽभीक्ष्ण्याऽविच्छेदे'० (७४/७३) द्विवचनम् । गेहमनुप्रविश्य = गेहानुप्रवेशम् । अनेन णम्प्र० → अम् । 'तृतीयोक्तं वा' (३।११५०) इत्यत्र समासः ।।
[गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते ] प्रपूर्व० 'पत्तृ गतौ' (९६२) पत् । गेहमनुप्रपत्य = गेहं गेहमनुप्रपातम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'वीप्सायाम्' (७।४।८०) द्विवचनम् ।
[गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते] प्रपूर्व० 'पत्लु गतौ (९६२) पत् । गेहमनुप्रपत्य = गेहमनुप्रपातमनुप्रपातम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'भृशा-ऽऽभीक्ष्ण्याऽविच्छेदे'० (७।४।७३) द्विवचनम् ।
ॐ बृहद्वृत्तौ - पौनःपुन्येनासेवनमाभीक्ष्ण्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org