SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ यष्टीग्रहं, यष्टिग्राहं युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । यष्टीर्गृहीत्वा यष्टीग्रहं यष्टिग्राहम् । अनेन णम्प्र० → अम् । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । 'युधिच् सम्प्रहारे' (१२६०) युध् । वर्त्त० अन्ते । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'लुगस्या' ० (२|१|११३) अलुक् । ३२६ [ दण्डमुद्यामं, दण्डोद्यामं धावति ] उत् 'यमूं उपरमे ' (३८६) यम् । दण्डमुद्यम्य = दण्डमुद्यामं दण्डोद्यामम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ, धावति । एवं नाम योद्धुं त्वरन्ते, यद् आयुधग्रहणमपि नाद्रियन्ते, यत् किञ्चिदासन्नं तदेव गृह्णन्तीत्यर्थः । क्षे - [ स्वाङ्गेन ] स्वमङ्गं = स्वाङ्गम्, तेन = स्वाङ्गेन । [ अध्रुवेण ] न ध्रुवमध्रुवम्, तेन = अध्रुवेण । = [ लोष्टान् यष्टीर्गृहीत्वा युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । ग्रहणं पूर्वं = गृहीत्वा । 'प्राक्काले' (५/४१४७) क्त्वाप्र० → त्वा । ‘ग्रह-व्रस्व-भ्रस्ज-प्रच्छः' (४|१|८४) य्वृत् ग्र० गृ० । 'गृह्णोऽपरोक्षायां दीर्घः' (४|४|३४) दीर्घः । [ खड्गं गृहीत्वा युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । ग्रहणं पूर्वं = गृहीत्वा । शेषं पूर्ववत् ॥छ || स्वाङ्गेाऽध्रुवेण ॥ ५४७९ ॥ - "अविकारोऽद्रवं मूर्त्तम्” इत्यादिलक्षणं स्वाङ्गम्, यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम्, यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी म्रियते तद् ध्रुवमिति सामर्थ्यादुक्तं भवति । [ केशान् परिधायं, केशपरिधायं नृत्यति ] परिपूर्व० 'डुधांग्क् धारणे च' केशपरिधायं नृत्यति । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञ' (४।३।५३) आ० आय् । - [ भ्रुवौ विक्षेपं, भ्रूविक्षेपं जल्पति ] विपूर्व० 'क्षिपत् प्रेरणे' (१३१७) क्षिप् । ध्रुवौ विक्षिप्य = अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ए, जल्पति । [ अक्षिणी निकाणमक्षिनिकाणं हसति ] 'कणण् निमीलने' (१७३७) कण् । 'चुरादि' ० ( ३।४।१७) णिच्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । अक्षिणी निकाणमक्षिनिकाणं हसति । अनेन णम्प्र० → अम् । 'णेरनिटि' (४।३।८३) णिच्लुक् । भ्रूविक्षेपम् । Jain Education International [ प्रतिमायाः पादावनुलेपं, पादानुलेपं प्रणमति] अनुपूर्व० 'लिपींत् उपदेहे' (१३२४) लिप् । पादावनुलिप्य पादावनुलेपं प्रणमति । अनेन णम्प्र० अम् । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ए । क्षे - For Private Personal Use Only (११३९) धा । केशान् परिधायं = > ऐ० । 'एदैतोऽयाय् ' (१।२।२३) [ भ्रुवौ विक्षिप्य जल्पति ] विपूर्व० 'क्षिपत् प्रेरणे' (१३१७) क्षिप् । विक्षेपणं पूर्वं = विक्षिप्य । 'प्राक्काले ' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् । = [ कफमुन्मूल्य जल्पति ] उत्पूर्व० 'मूल प्रतिष्ठायाम्' (४२७) मूल् । उन्मूलनमुन्मूल्य । 'प्राक्काले' (५|४|४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) यप् । 'धुटस्तृतीयः' (२१७६) त० द० । 'तृतीयस्य पञ्चमे' (१।३।१) द० न० । [ शिर उत्क्षिप्य कथयति ] उत्पूर्व० क्षिपत् प्रेरणे' (१३१७) क्षिप् । शिरस् द्वितीया अम् । 'अनतो लुप्' (१।४।५९) अम्लुप् । उत्क्षेपणं = उत्क्षिप्य । 'प्राक्काले' (५|४|४७) क्त्वाप्र० ->> त्वा । ‘अनञः क्त्वो यप्' ( ३।२।१५४) यप्, कथयति ॥छ || www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy