SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ॥ [ केशेषु ग्राहं, केशग्राहं युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । केशेषु गृहीत्वा । अनेन णम्प्र० अम् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ हस्तग्राहं युध्यन्ते ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । हस्तेन-हस्ते वा गृहीत्वा = हस्तग्राहम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ अस्युपनोदं युध्यन्ते ] उप 'णुदंत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेर्णो नः' (२|३|९७) नुद् । असिना उपनुद्य = अस्युपनोदम् । अनेन णम्प्र० अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । युद्धार्थसंरम्भादत्यन्तं संनिकृष्य युध्यते इत्यर्थः । पक्षे - [ द्व्यङ्गुलेनोत्कृष्य, द्व्यङ्गुले उत्कृष्य गण्डिकाश्छिनत्ति ] द्व्यङ्गुलाय (द्व्यङ्गुलेन) 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । 'अनञः क्त्वो यप्' ( ३।२।१५४) क्त्वा ३२५ = [ केशैर्गृहीत्वा, केशेषु गृहीत्वा युध्यन्ते ] केशैः - केशेषु वा ग्रहणं पूर्वं क्त्वाप्र० → त्वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४।३२) इट् । 'ग्रह - व्रस्व-भ्रस्ज-प्रच्छः' 'गृणोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः ॥छ|| पञ्चम्या त्वरायाम् ॥ ५।४।७७ ॥ उत्कर्षणं पूर्वं = उत्कृष्य । यप् । एवम् सप्तम्याम् । गृहीत्वा । 'प्राक्काले' (५।४।४७) (४|१|८४) य्वृत् ग्र० गृ० । [ पञ्चम्या ] पञ्चमी तृतीया टा । [ त्वरायाम् ] त्वरा सप्तमी ङि । त्वरा परीप्सा - औत्सुक्यमिति यावत् । शेरते जना अस्यामिति शय्या । क्ङिति यि शय्' (४|३|१०५) [ शय्याया उत्थायं, शय्योत्थायं धावति ] 'शीक् स्वप्ने' (११०५ ) शी । 'समज-निपत्-निषद्-शीङ् - सुग् - विदि- चरि-मनीण:' ( ५/३/९९ ) क्यप्प्र०य । " शय् " आदेशस्तत आप्प्र० । उत् 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । 'षः सोऽष्ट्यै- ष्ठिव ' ० (२२३१९८ ) स्था । निमित्ताभावे'० (न्या० सं० वक्ष० ( १ ) / सूत्र (२९)) स्था । शय्याया उत्थायं = शय्योत्थायं धावति । अनेन णम्प्र० अम् । 'आत ऐ: कृञ्ञ' (४|३|५३) आ० • ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । 'उद: स्था-स्तम्भः सः' (१|३|४४) लुक् । एवं नाम त्वरयते (त्वरते) यदावश्यकादिकमपि नापेक्षते । = [ स्तनरन्ध्रादपकर्षं, स्तनरन्ध्रापकर्षं पयः पिबति ] स्तनं (न) रन्ध्रादपकर्षं स्तनरन्ध्रापकर्षम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० अर् । पयस् द्वितीया अम् । 'अनतो लुप्' (१।४।५९) अम्लुप्, पिबति । एवं नाम त्वरयते (त्वरते), यत् पात्रे दोहमप्यप्रतीक्ष्य मुखे एव पयः पिबतीत्यर्थः । Jain Education International पक्षे [ शय्याया उत्थाय धावति ] शय्या पञ्चमी ङसि । उत्थानं पूर्वं = उत्थाय । ‘प्राक्काले' (५/४१४७) क्त्वाप्र० → त्वा । ‘अनञः क्त्वो यप्' ( ३।२।१५४) यप् । 'धावूग् गति - शुद्ध्यो:' (९२०) धाव् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ॥छ|| द्वितीयया ॥ ५।४।७८ ॥ For Private Personal Use Only [द्वितीयया ] द्वितीया तृतीया टा । = [ लोष्टान् ग्राहं, लोष्टग्राहं युध्यन्ते ] 'ग्रहीश् उपादाने ' (१५१७) ग्रह । लोष्टान् गृहीत्वा लोष्टान् ग्राहं लोष्टग्राहम् । अनेन णम्प्र० अम् । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । 'युधिच् सम्प्रहारे' (१२६०) युध् । वर्त्त० अन्ते । ‘दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । - www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy