Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३१२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां
'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भविष्यन्ती स्यते । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः कगम्' (२।११८६) ज० → ग० । 'अघोषे० (१।३।५०) ग० → क० । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । क-षयोगे क्ष० ।
इति प्रथमा सि । पृष्ट प्रथमा सि । असूयया-तृतीया टा । तं-द्वितीया अम् । प्रति प्रथमा सि ।
'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । वर्त० तिव् । 'ब्रूगः पञ्चानां पञ्चाऽऽहश्च' (४।२।११८) ब्रू० → आह० - तिव् → णव् च ।
यथा करणं पूर्वं = यथाकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । प्रथम सि । 'अव्ययस्य' (३।२७) सिलुप । एवं-तथा करणं पूर्वं = तथाकारम् । अनेन ख्णम्प्र० → अम् ।
अस्मद् प्रथमा सि । 'त्वमहं सिना प्राक् चाऽकः' (२।१।१२) "अहम्"आदेशः । भोक्ष्ये-भविष्यन्ती स्ये । शेषं पूर्ववत् । किं तवाऽनेन ? किं ते मया ? यथाहं भोक्ष्ये तथाऽहं भोक्ष्ये इत्यर्थः ।
[यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ] यथा-तथा । अम् । 'अव्ययस्य' (३।२।७) लुप् । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अहं भोक्ष्ये तथा द्रक्ष्यसि । 'दृशं प्रेक्षणे' (४९५) दृश् । भविष्यन्ती स्यसि । 'अः सजि-दृशोऽकिति' (४|४|१११) अकारागमः । 'इवर्णादेरस्वे'० (१।२।२१) रत्वम् । 'यज-सृज-मृज-राज'० (२।११८७) श० → ष० । 'ष-ढोः कस्सि' (२।१।६२) ष० → क० । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । क-षयोगे क्ष० ॥छ।।
शापे व्याप्यात् ॥ ५।४५२ ॥ [शापे] शाप सप्तमी ङि । [ व्याप्यात् ] व्याप्य पञ्चमी ङसि ।
अनर्थकादिति निवृत्तम्, शापे असंभवाद्, व्याप्यादिति भणनाद्वा । प्रचोरंकारमाक्रोशति] चोर 'डुकंग करणे' (८८८) कृ । चोरं कृत्वा = चोरंकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । 'खित्यनव्ययाऽरुषो'० (३।२।१११) मोऽन्तः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । करोतेरिहोच्चारणे-चोरं कृत्वा-चोरशब्दमुच्चार्याक्रोशति, चोरोऽसीत्याक्रोशतीत्यर्थः ।
[दस्युंकारमाक्रोशति] दस्युं कृत्वा = दस्युंकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप्, आक्रोशति ।
[व्याधंकारमाक्रोशति] व्याधं कृत्वा = व्याधंकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हले:' (४।३।५१) वृ० आर् । 'खित्यनव्ययाऽरुषो'० (३।२।१११) मोऽन्तः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप, आक्रोशति । ___+ [चोरं कृत्वा हेतुभिः कथयति ] चोर द्वितीया अम् । करणं पूर्व = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ॥छ।।
स्वाद्वर्थाददीर्घात् ॥ ५।४।५३ ॥ [स्वाद्वर्थात् ] स्वादुरर्थो यस्य सः = स्वाद्वर्थस्तस्मात् ।
[अदीर्घात् ] न दीर्घः = अदीर्घस्तस्मात् । ॐ बृहद्वृत्तौ - चौरंकारमाक्रोशति । + बृहद्वृत्तौ - चौरं... ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400