Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३१६
[ क्नोपे: ] क्नोपि पञ्चमी ङसि ।
[ चेलक्नोपं वृष्टो मेघ: ] चेलं 'क्नूयैङ् शब्दोन्दनयो:' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । 'अर्त्ति - री - व्ली' ० (४।२।२१) पोऽन्तः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चेलस्य क्नोपनं = चेलक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् ।
[ वस्त्रक्नोपं वृष्टो मेघः ] वस्त्र 'क्नूयैङ् शब्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । शेषं पूर्ववत् । वस्त्रस्य क्नोपनं = वस्त्रक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् ।
[ वसनक्नोपं वृष्टो मेघ: ] वसन 'क्नूयैङ् शब्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । शेषं पूर्ववत् । वसनस्य क्नोपनं वसनक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । यावता चेलं क्नूयते - आर्द्रीभवति तावद् वृष्ट इत्यर्थः ।
अर्थग्रहणादत्र स्वरूप- पर्याय-विशेषाणां त्रयाणामपि
[ पटिकाक्नोपं वृष्टो मेघ: ] पटिकायाः क्नोपनं [ कम्बलक्नोपं वृष्टो मेघ: ] कम्बलस्य क्नोपनं
भवति ।
=
अयमप्यप्राक्काले विधिः ॥छा |
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
ग्रहणम्, तेन -
पटिकाक्नोपम् । अनेन णम्प्र०
अम् । कम्बलक्नोपम् । अनेन णम्प्र०, इत्यादौ चेलविशेषादपि
=
=
Jain Education International
गात्र- पुरुषात् स्नः ।। ५।४ । ५९ ।।
[ गात्रपुरुषात् ] गात्रश्च पुरुषश्च = गात्रपुरुषम्, तस्मात् ।
[स्नः ] स्ना पञ्चमी ङसि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् ।
[ गात्रस्नायं वृष्टो मेघः ] गात्र 'ष्णांक् शौचे' (१०६४ ) ष्णा । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । गात्रस्य स्नानं = गात्रस्नायम् । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञौ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय् '
(१।२।२३) आय् ।
[ पुरुषस्नायं वृष्टो मेघः ] पुरुष 'ष्णांक् शौचे' (१०६४ ) ष्णा । ' षः सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२|३|९८) स्ना । पुरुषस्य स्नानं = पुरुषस्नायम् । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञ' (४।३।५३) आ० (१।२।२३) आय् । यावता गात्रं पुरुषश्च स्नाप्यते तावद् वृष्ट इत्यर्थः ॥छ ।
ऐ० । 'एदैतोऽयाय् '
शुष्क- चूर्ण- रूक्षात् पिषस्तस्यैव || ५|४|६० ॥
[ शुष्कचूर्णरूक्षात् ] शुष्कश्च चूर्णश्च रूक्षश्च = शुष्कचूर्णरूक्षम्, तस्मात् ।
[ पिषः ] पिष् पञ्चमी ङसि ।
[ तस्य ] तद् षष्ठी ङस् ।
[ एव ] एव प्रथमा सि ।
पिषस्यैव इत्यर्थः ।
[ शुष्कपेषं पिनष्टि ] 'पिष्लृप् संचूर्णने' (१४९३) पिष् । शुष्कस्य पेषणं = शुष्कपेषम् । अनेन णम्प्र० 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । शुष्कं पिनष्टीत्यर्थः ।
For Private
Personal Use Only
→ अम् ।
www.jainelibrary.org
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400