SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ [ क्नोपे: ] क्नोपि पञ्चमी ङसि । [ चेलक्नोपं वृष्टो मेघ: ] चेलं 'क्नूयैङ् शब्दोन्दनयो:' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । 'अर्त्ति - री - व्ली' ० (४।२।२१) पोऽन्तः । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चेलस्य क्नोपनं = चेलक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । [ वस्त्रक्नोपं वृष्टो मेघः ] वस्त्र 'क्नूयैङ् शब्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । शेषं पूर्ववत् । वस्त्रस्य क्नोपनं = वस्त्रक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । [ वसनक्नोपं वृष्टो मेघ: ] वसन 'क्नूयैङ् शब्दोन्दनयोः' (८०२) क्नूय् । क्नूयमानं प्रयुङ्क्ते । शेषं पूर्ववत् । वसनस्य क्नोपनं वसनक्नोपम् । अनेन णम्प्र० अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । यावता चेलं क्नूयते - आर्द्रीभवति तावद् वृष्ट इत्यर्थः । अर्थग्रहणादत्र स्वरूप- पर्याय-विशेषाणां त्रयाणामपि [ पटिकाक्नोपं वृष्टो मेघ: ] पटिकायाः क्नोपनं [ कम्बलक्नोपं वृष्टो मेघ: ] कम्बलस्य क्नोपनं भवति । = अयमप्यप्राक्काले विधिः ॥छा | श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । ग्रहणम्, तेन - पटिकाक्नोपम् । अनेन णम्प्र० अम् । कम्बलक्नोपम् । अनेन णम्प्र०, इत्यादौ चेलविशेषादपि = = Jain Education International गात्र- पुरुषात् स्नः ।। ५।४ । ५९ ।। [ गात्रपुरुषात् ] गात्रश्च पुरुषश्च = गात्रपुरुषम्, तस्मात् । [स्नः ] स्ना पञ्चमी ङसि । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । [ गात्रस्नायं वृष्टो मेघः ] गात्र 'ष्णांक् शौचे' (१०६४ ) ष्णा । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । गात्रस्य स्नानं = गात्रस्नायम् । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञौ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय् ' (१।२।२३) आय् । [ पुरुषस्नायं वृष्टो मेघः ] पुरुष 'ष्णांक् शौचे' (१०६४ ) ष्णा । ' षः सोऽष्ट्यै- ष्ठिव ष्वष्कः' (२|३|९८) स्ना । पुरुषस्य स्नानं = पुरुषस्नायम् । अनेन णम्प्र० अम् । 'आत ऐः कृञ्ञ' (४।३।५३) आ० (१।२।२३) आय् । यावता गात्रं पुरुषश्च स्नाप्यते तावद् वृष्ट इत्यर्थः ॥छ । ऐ० । 'एदैतोऽयाय् ' शुष्क- चूर्ण- रूक्षात् पिषस्तस्यैव || ५|४|६० ॥ [ शुष्कचूर्णरूक्षात् ] शुष्कश्च चूर्णश्च रूक्षश्च = शुष्कचूर्णरूक्षम्, तस्मात् । [ पिषः ] पिष् पञ्चमी ङसि । [ तस्य ] तद् षष्ठी ङस् । [ एव ] एव प्रथमा सि । पिषस्यैव इत्यर्थः । [ शुष्कपेषं पिनष्टि ] 'पिष्लृप् संचूर्णने' (१४९३) पिष् । शुष्कस्य पेषणं = शुष्कपेषम् । अनेन णम्प्र० 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । शुष्कं पिनष्टीत्यर्थः । For Private Personal Use Only → अम् । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy