________________
पञ्चमाध्यायस्य चतुर्थः पादः ।।
३१७
www.३१
[चूर्णपेषं पिनष्टि] चूर्णस्य पेषणं = चूर्णपेषम् । अनेन णम्प्र० → अम् । [ रूक्षपेष पिनष्टि] रूक्षस्य पेषणं = रूक्षपेषम् । अनेन णम्प्र० → अम् ।
[शुष्कपेषं पिष्टः ] पिष्यते स्म = पिष्टः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → ट० ।
[शुष्कपेषं घेष्टव्यः] पिष्यते = पेष्टव्यः । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → ट० ।
[शुष्कपेषं पिष्यते ] पिष् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
क्तादिभिरुक्तेऽपि व्याप्ये तदुपपदताऽस्त्येव, धातोरनुप्रयोगस्तत्र णमन्तस्य 'क्रियाविशेषणात्' (२।२।४१) अम्, अव्ययस्य प्रयोगानुप्रयोगक्रिययोरैक्यात् तुल्यकर्तकत्वं प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घादय एव तु भवन्ति__ [शुष्कस्य पेषं पिनष्टि] शुष्क षष्ठी ङस् । पेषणं = पेषम् । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए।
[निमूलं कषित्वा कषति ] निमूलस्य कषणं इति अर्थकथनम् । निमूल द्वितीया अम् । 'कष हिंसायाम्' (५०७) कष् । कषणं पूर्वं = कषित्वा । मतान्तरे 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । इट् । कषति ॥छ।।
कृग्-ग्रहोऽकृत-जीवात् ॥ ५।४।६१ ॥ [कृग्ग्रहः ] कृग् च ग्रह च = कृग्ग्रह, तस्मात् । [अकृतजीवात् ] अकृतश्च जीवश्च = अकृतजीवम्, तस्मात् ।
[अकृतकारं करोति] अकृतस्य करणं = अकृतकारम् । अनेन णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । अकृतं करोतीत्यर्थः ।।
[जीवग्राहं गृहणाति ] जीवस्य ग्रहणं = जीवगाहम् । अनेन णम्प्र० → अम् । 'णिति' (४३५०) उपान्त्यवृद्धिः आ । जीवन्तं गृह्णातीत्यर्थः ॥छ।।
निमूलात् कषः ॥ ५।४।६२ ॥ [निमूलात् ] निमूल पञ्चमी ङसि । [कषः] कष् पञ्चमी ङसि ।
[निमूलकाषं, निमूलस्य काषं कषति] मूलस्याऽत्ययो निमूलम् । यद्वा निर्गतानि मूलान्यस्य = निमूलः । 'कष हिंसायाम्' (५०७) कष् । निमूलस्य कषणं = निमूलकाषम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । निमूलं कषतीत्यर्थः । पक्षे-निमूल षष्ठी ङस् । कषणं = काषम् । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । द्वि० अम् । कषति ॥छा।
हनश्च समूलात् ॥ ५।४।६३ ॥ [हनः] हन् पञ्चमी ङसि । [च] च प्रथमा सि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org