________________
३१८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ समूलात् ] समूल पञ्चमी ङसि ।
[समूलघातं हन्ति ] मूलैः साकल्यं = समूलम् । 'अकालेऽव्ययीभावे' (३।२।१४६) सहस्य सभावः । 'हनंक हिंसागत्योः' (११००) हन् । समूलस्य हननं = समूलघातम् । अनेन णम्प्र० → अम् । 'णिति घात्' (४।३।१००) "घात्" आदेशः । समूलं हन्तीत्यर्थः ।
[समूलकाषं कषति ] समूलं समूलस्य वा कषणं = समूलकाषम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । समूलं कषतीत्यर्थः ॥छा।
करणेभ्यः
॥ ५।४।६४ ॥
[करणेभ्यः] करण पञ्चमी भ्यस् ।
[पाणिघातं कुड्यमाहन्ति] पाणिना हननं = पाणिघातम् । अनेन णम्प्र० → अम् । 'ञ्णिति घात्' (४।३।१००) "घात्"आदेशः । पाणिना कुड्यमाहन्तीत्यर्थः । 'आङो यम-हन:०' (३।३८६) इत्यनेन सकर्मकत्वादात्मनेपदं न ।
[पादघातं शिलां हन्ति] पादेन हननं = पादघातम् । अनेन णम्प्र० → अम् । 'ञ्णिति घात्' (४।३।१००) "घात्"आदेशः । पादेन शिलां हन्तीत्यर्थः ।
बहुवचनं व्याप्त्यर्थम्, तेन करणपूर्वाद्धिसार्थादपि हन्तेरनेनैव णम् - [अस्युपघातमरीन् हन्ति ] असिना उपहननं = अस्युपघातमरीन् हन्ति । अनेन णम्प्र० → अम् । [शरोपघातं मृगान् हन्ति ] शरैरुपहननं = शरोपघातम् । अनेन णम्प्र० → अम् । मृगान् हन्ति ॥छ।।
स्व-स्नेहनार्थात् पुष-पिषः ॥ ५।४६५ ॥ [स्वस्नेहनार्थात् ] 'ष्णिहौच प्रीतौ' (१२४१) ष्णिह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्निह् । स्निह्यतेऽनेनेति स्नेहनम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। जस्वश्च स्नेहनं च = स्वस्नेहने, स्वस्नेहनेऽर्थो(ौँ) यस्याऽसौ स्वस्नेहनार्थस्तस्मात् ।
[पुषपिषः] पुषश्च पिष् च = पुषपिष्, तस्मात् । आत्मा-आत्मीयं-ज्ञातिर्धनं च स्वम् ।
[स्वपोषं पुष्णाति, पुष्यति, पोषति वा] 'पुषश् पुष्टौ' (१५६४) पुष् । 'पुषंच् पुष्टौ' (११७५) पुष् । स्वेन पोषणं = स्वपोषणम् । अनेन णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । पुष्यति, पोषति वा ।
[आत्मपोषं पुष्णाति, पुष्यति, पोषति वा] आत्मना पोषणम् । [गोपोषं पुष्णाति, पुष्यति, पोषति वा] गोभिः पोषणम् । [महिषीपोषं पुष्णाति, पुष्यति, पोषति वा] महिषीभिः पोषणम् । [पितृपोषं पुष्णाति, पुष्यति, पोषति वा] पित्रा पोषणम् ।
श० म० न्या० - स्वं च स्नेहनं च = स्वस्नेहने, ते अर्थावस्येति विग्रहकरणे ह्येकस्यैवोपपदस्योभयार्थत्वमायातम्, तन्न युक्तमेकस्योपपदस्योभयार्थत्वायोगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org