SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः॥ ३१९ [मातृपोषं पुष्णाति, पुष्यति, पोषति वा] मात्रा पोषणम् । अनेन णम्प्र० । [धनपोषं पुष्णाति, पुष्यति, पोषति वा] धनेन पोषणम् । [ रैपोषं पुष्णाति, पुष्यति, पोषति वा] राया-द्रव्येण पोषणं = रैपोषम् । अनेन णम्प्र० → अम् । स्वादिभिः पुष्णातीत्याद्यर्थः । स्नेहनार्थात् - [उदपेषं पिनष्टि] उदकस्य पेषणम् । अनेन णमप्र० → अम् । 'उदकस्योदः पेषं-धि-वास-वाहने' (३।२।१०४) उदकस्य "उद" भावः । [घृतपेषं पिनष्टि] घृतेन पेषणं = घृतपेषम् । [तैलपेषं पिनष्टि] तैलेन पेषणं = तैलपेषम् । [क्षीरपेषं पिनष्टि] क्षीरेण पेषणं = क्षीरपेषम् । अनेन णम्प्र० → अम् । उदकादिना पिनष्टीत्यर्थः ॥छ।। ___ हस्तार्थाद् ग्रह-वर्ति-वृतः ॥ ५।४।६६ ॥ [ हस्तार्थात् ] हस्तोऽर्थो यस्य तत् = हस्तार्थम्, तस्मात् । [ग्रहवर्तिवृतः ] ग्रहश्च वृतिश्च(वर्तिश्च) वृच्च = ग्रहवर्तिवृत्, तस्मात् । [हस्तग्राहं गृह्णाति] हस्तेन ग्रहणं = हस्तग्राहम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । __[करग्राहं गृह्णाति ] करेण ग्रहणं = करग्राहम् । अनेन णम्प्र० → अम् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ। [पाणिग्राहं गृह्णाति ] पाणिना ग्रहणं = पाणिग्राहम् । अनेन णम्प्र० → अम् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ। हस्तेन गृह्णातीत्यर्थः । [हस्तवर्तं वर्तयति] 'वृतूङ् वर्तने' (९५५) वृत् । वर्तमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । हस्तेन वर्तनं = हस्तवर्तम् । अनेन णम्प्र० → अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । [करवर्तं वर्तयति] 'वृतूङ् वर्तने' (९५५) वृत् । वर्तमानं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । करेण वर्तनं = करवर्तम् । अनेन णम्प्र० → अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । [पाणिवर्तं वर्तयति] 'वृतूङ् वर्तने' (९५५) वृत् । वर्तमानं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । पाणिना वर्तनं = पाणिवर्तम् । अनेन णम्प्र० → अम् । 'णेरनिटि' (४।३।८३) णिग्लुक् । हस्तेन वर्तयतीत्यर्थः ।। [हस्तवर्तं वर्तते ] 'वृतूङ् वर्तने' (९५५) वृत् । हस्तेन वर्तनं = हस्तवर्तम् । अनेन णम्प्र० → अम् । । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [करवर्तं वर्तते] 'वृतूङ् वर्तने' (९५५) वृत् । करेण वर्तनं = करवर्तम् । अनेन णम्प्र० → अम् । । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy