Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 322
________________ पञ्चमाध्यायस्य चतुर्थः पादः॥ ३०५ शी । भविष्यन्ती स्यते । 'स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:-श्वस्तन्यां जिट् वा' (३।४।६९) जिट् → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [लूयस्व लूयस्वेत्येव लूयते, अलावि, लाविष्यते केदारः] 'लूग्श् छेदने' (१५१९) लू । पञ्चमी स्व । क्यप्र० → य । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे'० (७।४।७३) "लूयस्व" द्विः । इति - एव प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । लू । वर्त० ते । क्यप्र० → य । लू । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) बिच् → इ - तलोपश्च । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि'० (४।४।२९) अट् । लू । भविष्यन्ती स्यते । 'स्वर-ग्रह' ० (३।४।६९) इ । गुणे सति अव् । (जिट → इ० । वृद्धौ सति आव्) । तश्च ध्वम् च = तध्वमौ, तयोः = तध्वमोः, तध्वमोः संबन्धी युष्मद् = तयुष्मद्, तस्मिन् = तद्युष्मदि । [लुनीत लुनीतेत्येव, यूयं लुनीथ ] 'लूग्श् छेदने' (१५१९) लू । पञ्चमी त । 'क्यादेः' (३।४।७९) श्नाप्र० → 'प्वादेहस्वः' (४।२।१०५) ह्रस्वः । 'भृशाऽऽभीक्ष्ण्या-ऽविच्छेदे'. (७।४।७३) द्विः । लुनीथ । लू । वर्त० थव् । 'क्रयादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आकारस्य ई । 'प्वादेर्हस्वः' (४।२।१०५) हुस्वः । एवं हि-स्वविषये । [अधीध्वमधीध्वामित्येव यूयमधीध्वे ] अधि 'इंक् अध्ययने' (११०४) इ । पञ्चमी ध्वम् । 'समानानां'. (१।२।१) दीर्घः । 'भृशाऽऽभीक्ष्ण्या-ऽविच्छेदे'० (७।४।७३) द्विः । अधीध्वे । अधि 'इंक् अध्ययने' (११०४) इ । वर्तः ध्वे । 'समानानां तेन'० (१।२।१) दीर्घः । [लुनीत लुनीतेत्येव यूयमलाविष्ट] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्वर-ग्रह'० (३।४।६९) बिट् → इ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → ट० । 'अड् धातोरादि'० (४।४।२९) अट् । [लुनीहि लुनीहीत्येव यूयमलाविष्ट] 'लूग्श् छेदने' (१५१९) लू । अद्यतनी त । (४।४।२९) शेषं पूर्ववत् । [अधीध्वमधीध्वमित्येव यूयमध्यैढ्वम्, अधीष्वाऽधीष्वेत्येव यूयमध्यगीढ्वम्] अधि 'इंङ्क् अध्ययने' (११०४) इ । अद्यतनी ध्वम् । सिच् । 'स्वरा'० (४।४।३१) वृ० ऐ । 'वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् (४।४।२८) द्वितीये इ० → गीङ् → गी० । 'सो धि वा' (४।३७२) उभयत्र सिच्लुक् । एवम् - ह्यस्तन्यादिष्वप्युदाहार्यम् । ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विवचनम्, भृशाभीक्ष्ण्यनिरपेक्षं 'सन्-यङश्च' (४।१।३) इत्यनेन द्विर्वचनमिह तु द्विर्वचनमित्यत्र को हेतुः ? उच्यते - यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुमिति तदभिव्यक्ते द्विर्वचनं नापेक्ष्यते इति ॥छ। प्रचये नवा सामान्यार्थस्य ॥ ५।४।४३ ॥ [प्रचये] प्रचयनं = प्रचयस्तस्मिन् । [नवा] नवा प्रथमा सि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400