SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ॥ ३०१ कश्चिदाह - [समुद्रः शोषयितुमशक्यः ] 'शुषंच् शोषणे' (१२०८) शुष् । शुष्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । शोषणाय = शोषयितुम् । 'क्रियायां क्रियार्थायां तुम्'० (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । स आह -[समुद्रमपि शोषयाणि] शोषि ण्यन्तो मण्ड्यते । मतान्तरे पञ्चमी आनिवप्र० → आनि । 'कर्तर्यन'. (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'र-घृवर्णान्नो ण'० (२।३।६३) णत्वम् । [पर्वतमप्युत्पाटयानि] 'पट गतौ' (१९५) पट्, उत्पूर्व० । उत्पटन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । मतान्तरे पञ्चमी आनिवप्र० → आनि । 'कर्तर्यन'० (३।४/७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ॥छ।। माङयद्यतनी ॥ ५।४।३९ ॥ [माङि] माङ् सप्तमी ङि । [अद्यतनी] अद्यतनी प्रथमा सि । [मा कार्षीदधर्मम्] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'डुकंग करणे' (८८८) क । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै०' (४।३।४४) वृद्धिः आर् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । अधर्मम् । [मा हार्षीत् परस्वम् ] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप । 'हंग हरणे' (८८५) ह। अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'सः सिजस्तेदि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै समान'० (४।३।४४) वृ० आर् । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'अड् धातोरादि'० (४।४।२९) अट् । परस्वम् ॥छ।। सस्मे शस्तनी च ॥ ५।४।४० ॥ [सस्मे ] सह स्मेन वर्तते, तेन(तस्मिन्) । 'सहस्य सोऽन्यार्थे (३।२।१४३) सहस्य सभावः । [शस्तनी] ह्यस्तनी प्रथमा सि । [च] च प्रथमा सि । [मा स्म करोत् ] मा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'डुकंग करणे' (८८८) कृ । ह्यस्तनी दिव् → त् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो'० (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । [मा स्म कार्षीत् ] मा स्म प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । 'कार्षीत्' पूर्ववत् (५।४।३९) । [मा चैत्र ! स्म हरः परद्रव्यम् ] 'हंग् हरणे' (८८५) ह । ह्यस्तनी सिव् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो'० (४।३।१) गु० अर् ॥छ।। धातोः संबन्धे प्रत्ययाः ॥५।४।४१ ॥ [धातोः ] धातु षष्ठी ङस् । [संबन्धे ] संबन्धनं = संबन्धस्तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy