SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०० [ गेयो गाथानाम् ] गायतीति गेयः । य एच्चात: ' (५।१।२८) यप्र० आ० ए०, गाथानाम् । णिना बाधो मा भूदिति कृत्यविधानम् । कृत्त्वाच्च कर्तरि णिनो विधानात् कृत्यानामपि कर्त्तर्येव विधानम्, भाव - कर्मणोस्तु सामान्येन विधानात् सिद्धा एव बाधकाभावात् ॥छ अर्ह तृच् ॥ ५|४|३७ ॥ [ अ ] अर्ह सप्तमी ङि । [ तृच् ] प्रथमा सि । [ भवान् कन्याया वोढा ] 'वहीं प्रापणे' (९९६) वह । वोढुमर्हति = वोढा । अनेन तृच्प्र० तृ । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा ' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) तस्य धः । ' तवर्गस्य०' (१|३|६०) धस्य ढः । 'सहि - वहेरोच्चाऽवर्णस्य' (१।३।४३) ढलुक् अवर्णस्य ओच्च । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ठिकायां । [ भवान् खलु छेदसूत्रस्य वोढा ] 'वहीं प्रापणे' (९९६) वह । वोढुमर्हति = वोढा । शेषं पूर्ववत् । सप्तम्या बाधा मा भूदित्यर्हे तृज्विधानम् ॥छ|| [ आशिषि ] आशिष् सप्तमी ङि । [ आशी: पञ्चम्यौ ] आशीश्च पञ्चमी च = आशिष्याशी:- पञ्चम्यौ ॥ ५।४।३८ ॥ आशीः पञ्चम्यौ । [ जीयात् ] 'जिं अभिभवे' (८) जि । आशी: क्यात् → यात् । 'दीर्घश्च्वि - यङ् - यक्-क्येषु च' (४|३|१०८) दीर्घः । [ जीयास्ताम् ] जि । आशीः क्यास्ताम् → यास्ताम् । 'दीर्घश्च्वि' ० ( ४।३।१०८) दीर्घः । [ जीयासुः ] जि । आशी: क्यासुस् यासुस् । 'दीर्घश्च्वि' ० ( ४ | ३ | १०८) दीर्घः । [ जयतात् ] जि । पञ्चमी तुव् । 'आशिषि तु ह्योस्तातङ्' (४।२।११९) तु → तातङ् → तात् । ‘कर्त्तर्यनद्भ्यः शव्’ (३।४।७१) शव् । ‘नामिनो गुणोऽक्ङिति' (४|३|१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । [ जयताम्] जि । पञ्चमी ताम् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो' ० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education International [ जयन्तु ] जि । पञ्चमी अन्तु । 'कर्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो' ० ( ४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । [ चिरं जीवति मैत्रः ] चिरम् अव्ययम् । 'जीव प्राणधारणे' (४६५) जीव् । वर्त्त० तिव् । 'कर्त्तर्यन' ० (३।४।७१) शव् । मैत्र प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । चिरशब्दोऽकारान्तो वा 'काला - ऽध्वनोर्व्याप्तौ ' (२।२।४२) इत्यादिना कर्म । परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy