Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 331
________________ ३१८ श्रीशुभचन्द्राचार्यवर्येण विरचितम् तत्र भुक्त्वा चिरं शर्मामरंदेवी समाश्रितं । स्वायुरंते ततश्च्युत्वा त्वमभूः श्रेणिकात्मजः ॥ ५७ ॥ अतः परं तपः कृत्वा त्वं सेत्स्यसि जिनोदितं । अपृच्छत्स्वभवान् दंतिकुमारो मुनिपुंगवं ॥ ५८ ॥ तदाह भगवान् पुत्र समाकर्णय त्वद्भवान् । एकस्मिन् दारुणे भीमेऽरण्ये वृक्षादिमंडिते ॥ ५६ ॥ सुधर्माख्यो महायोगी योगोद्दीपितविग्रहः । ध्यानेनास्थाद्विशुद्धात्मविशदेनस्ववत्तिना ॥६० ॥ अथोदारुण्यभिल्लाख्योऽधिष्ठाताबिपनस्य च । अरण्येऽग्निमदात्तंवा जानन् योगभरावहं ॥६१ ॥ दावानलश्च कब्पांत कालप्रख्यो मुनीश्वरं । स्थिरध्यानं न जज्वाल कायमानं न जंतुकं ॥ ६२॥ विसW स निजप्राणान् च्युतं चागमद्दिवम् । भिल्लस्तद्विग्रहं वीक्ष्य विषण्णोऽभूत्स्वनिंदकः ॥ ६३ ।। निः कारणं मयास्यैव गात्रं चारित्रचित्रितम् । तपः पूतं नृपैर्वद्यं संदग्धं पापिना शुभम् ।। ६४ ॥ कालांते स ततश्च्युत्वा तत्राभूत्सिधुरः शुभः । दीर्धांगो दीर्घदंतश्च चलदंजनसंनिभः ॥६५॥ अथो अष्टान्हिकायां च द्वीपं नंदीश्वरं सुरः । सोऽच्युतस्थश्चचालाशु तत्रापश्यत्तकं गजं ॥ ६६ ॥ अनुदैवो मुनेर्मुद्रां पूर्वजां तत्र सद्वने । समादाय स्थितो ध्याने समुत्तीर्य च पुष्करात् ॥ ६७ ।। तदागमनमार्गे तं स्थितं वीक्ष्य गजोत्तमः । अभूज्जातिस्मरो वेगान्मुंचयन्नायनं जलम् ।। ६८ ।। प्रणिपत्य मुनिनाथं तं निंदयत्स्वभवावलीं। तद्वाक्यादाददौ श्राद्ध व्रतानि स सुदर्शनम् ॥ ६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386