Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 343
________________ ३३० श्रीशुभचन्द्राचार्यवर्येण विरचितम् चतुर्थे वयसि ग्राह्यं त्वयोक्तं तत्कथं वयः । प्राप्यते यमदंतस्यमवेद्यं तज्जनः सदा ।। २२ ।। रूपादिकक्षणध्वंसी सारातीतं विनश्वरम् । मिथ्याबुद्धिरसारा सा या गृहादिकसंस्थिता ॥ २३ ॥ राज्यं विनश्वरं नाथ ! न ग्रहीष्यामि निश्चितं । अंगीकरोमि विध्वंसरहितं निश्चलं शुभं ॥ २४ ॥ ईदशं बहधा राज्यं भक्तपूर्वं नराधिप । अपूर्वमिष्यते नूनं मदृष्टं क्षयवर्जितम् ।। २५॥ अतः पूर्वं त्वदाज्ञा च कृता हि बहुशो नृप । न करिष्येऽद्य चेन्नूनं भविष्यति विरूपकं ॥ २६ ॥ अतो देहि समादेशं प्रसीद पुरुषोत्तम । इति वाक्यैः प्रबौध्याशुजनकं साश्रुलोचनं ।। २७ ।। संबोध्यजननी स्वीयां विलापमुखरां वरां । भामिनीश्च महारूपविभवा मदनावहा ।। २८ ।। समं गजकुमाराद्यैरभयो दंतिनं परम् । समारुह्यप्रतस्थे च वार्यमाणो नृपादिभिः ।। २६ ।। महावीरं समासाद्य विपुलाचलसंस्थितम् । हित्वा सर्वाणि यानानि रुरोह समवसृति ॥ ३०॥ तत्रासीनं जिनं प्रेक्ष्य त्रिः परीत्यप्रपूज्यच । नत्वा स्तुत्वा मुनींद्रंच प्रार्थयामास दीक्षणं ।। ३१ ॥ ततोवसनभूषादिन्मुक्त्वा तद्वचसाऽभयः । बहुभिः बंधुभिः सत्रं जग्राहपरमं तपः ।। ३२ ॥ त्रयोदशविधं वृत्तंचचार चरणान्वितः । ध्यानासीनः शिवाकांक्षी चितयन्परमपदं ॥ ३३ ॥ हंसतूलसुशय्यायां सवस्त्राया च यैः सदा । सुप्तंतेशेरतेभूमौ शर्करोपलसन्मृदि ।। ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386