________________
३३०
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
चतुर्थे वयसि ग्राह्यं त्वयोक्तं तत्कथं वयः । प्राप्यते यमदंतस्यमवेद्यं तज्जनः सदा ।। २२ ।। रूपादिकक्षणध्वंसी सारातीतं विनश्वरम् । मिथ्याबुद्धिरसारा सा या गृहादिकसंस्थिता ॥ २३ ॥ राज्यं विनश्वरं नाथ ! न ग्रहीष्यामि निश्चितं । अंगीकरोमि विध्वंसरहितं निश्चलं शुभं ॥ २४ ॥ ईदशं बहधा राज्यं भक्तपूर्वं नराधिप । अपूर्वमिष्यते नूनं मदृष्टं क्षयवर्जितम् ।। २५॥ अतः पूर्वं त्वदाज्ञा च कृता हि बहुशो नृप । न करिष्येऽद्य चेन्नूनं भविष्यति विरूपकं ॥ २६ ॥ अतो देहि समादेशं प्रसीद पुरुषोत्तम । इति वाक्यैः प्रबौध्याशुजनकं साश्रुलोचनं ।। २७ ।। संबोध्यजननी स्वीयां विलापमुखरां वरां । भामिनीश्च महारूपविभवा मदनावहा ।। २८ ।। समं गजकुमाराद्यैरभयो दंतिनं परम् । समारुह्यप्रतस्थे च वार्यमाणो नृपादिभिः ।। २६ ।। महावीरं समासाद्य विपुलाचलसंस्थितम् । हित्वा सर्वाणि यानानि रुरोह समवसृति ॥ ३०॥ तत्रासीनं जिनं प्रेक्ष्य त्रिः परीत्यप्रपूज्यच । नत्वा स्तुत्वा मुनींद्रंच प्रार्थयामास दीक्षणं ।। ३१ ॥ ततोवसनभूषादिन्मुक्त्वा तद्वचसाऽभयः । बहुभिः बंधुभिः सत्रं जग्राहपरमं तपः ।। ३२ ॥ त्रयोदशविधं वृत्तंचचार चरणान्वितः । ध्यानासीनः शिवाकांक्षी चितयन्परमपदं ॥ ३३ ॥ हंसतूलसुशय्यायां सवस्त्राया च यैः सदा । सुप्तंतेशेरतेभूमौ
शर्करोपलसन्मृदि ।। ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org