SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रेणिक पुराणम् शीतात्तौशय्यते येन हर्म्य गाढं सयोषितम् । स्थीयते तेन नद्यांते निशि शीतमरुद्भरे ॥ ३५ ॥ हरिचंदनलिप्तांगजष्णे धारागृहे स्थितः ।। क्ष्माभन्मूनि स्थितः सोऽपिखरांशुकिरणाहतः ॥ ३६॥ वर्षानॊजलसंचार वजित सदने स्थितः । वृक्षमूलेजलाकीर्णे स्थितं तेन सदसके ॥ ३७॥ सूक्ष्मचीनांशकैर्येन परिवत्रे स्वविग्रहं । चतुष्पथे स निर्वस्त्रस्तिष्ठति प्रौढमानसः ॥ ३८ ॥ स्वर्णामत्रे चिरंयेनभुक्तं रत्नविराजते । पाणौ संभुज्यते तेन क्षरद्धृतजलादिके ॥ ३९ ॥ पक्वान्नपायसाद्यश्च व्यंजनैर्भुज्यते सदा । तैलकोद्रवकंग्वादिपारणायां विव्यंजनम् ॥ ४० ॥ हस्तिघोटकवाहाद्यैर्गतंयैश्च पदे पदे । पादेन गम्यते तैश्च भूतले कंटकाकुले ।। ४१ ॥ सप्तभूमे गृहे येन सुप्तं स्वार्णमणिप्रभे । सुष्यते तेनशैलेषु दरीगेहे ससर्पके ॥ ४२ ॥ यः स्तुतोभूरिभूमीशः समदैः सबलैः परैः । स्तूयते यतिनाथैः स निर्मदैश्चरणोज्वलैः ॥ ४३ ।। कांतारतिसमुत्पन्नभुक्तं शर्म यकेनच। . लिह्यते विषयातीतं शाश्वतं ध्यानसंभवं ॥४४॥ श्रुतानि येन गीतानि कामिनीमुखजानिच । श्रूयंते मृगघूकानां रावा निशि श्मशानके ॥ ४५ ॥ पुत्रपौत्रादिभिः केलिः कृता येन चिरंगृहे । क्रियते तेन सारंगैः समविश्वासतां गतः । इत्थं चिरतरं तप्त्वा तपोघोरपरीषहैः । उन्मूल्यघातिसंघातं शुक्लध्यानप्रभावतः ।। ४७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002771
Book TitleShrenika Charitra
Original Sutra AuthorShubhachandra Acharya
AuthorDharmchand Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages386
LanguageHindi
ClassificationBook_Devnagari, Biography, & Story
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy