Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 368
________________ श्रेणिक पुराणम् ३५५ नाथ ! सार्थानिमान् स्वप्रचारान् पश्चिमे यामके पश्य के वै । जल्पयत्वं फलं तेषां किं विभो, ज्ञान विज्ञान नेत्रः सुचित्रैः ॥ ४४ ॥ श्रुत्वेति वाचं नृपतिर्जगौ तां ___ कांते प्रिये दंतिगते मृगाक्षि । वक्ष्ये फलं तेऽद्य मनोजगेहे तेषां यथार्थं दयिते दयाढ्ये ॥ ४५ ॥ दंतीक्षणात्ते भविता तनूजो ज्येष्ठो वृषाद्विष्टपके मृगारेः । अनंतवीर्य शुभपुष्पदाम्नोः वृषस्य सम्यक् स पतिर्भविष्णुः ॥ ४६॥ लक्षम्याभिषेकात्कनकाद्रिमूनि संस्नाप्यतेऽसौ सुरनाथवगैः । चंद्राज्जनाह्लादकरश्च सूर्य्याद् । भास्वद्युतिवित्तपतिश्च कुंभात् ।। ४७ ।। मीनादनंतसुखभाक् सरसः सुपूर्णः, सल्लक्षणेरुदधितो वर बोधयुक्तः । सिंहासनाद्भुवनराज्यपतिर्बलिष्ठः, पुण्याधिपोऽमर विमान विलोकनाच्च ॥ ४८ ॥ नागालयादवधिबोधयुतश्च रत्नान् ___ नानागुणोज्ज्वलनवीक्षणतः क्षणेन । कर्मेधनस्य दहने खलु बद्धकक्षो वक्त्रप्रवेशनविधेर्भविता सुतस्ते ॥ ४६॥ श्रुत्वा स्वप्न फलं नृपस्य दयिता यावत्प्रमोदान्विता। तावन्नारकत: समेत्य नृपते जीवोऽशुभे चोदरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386