Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 374
________________ श्रेणिक पुराणम् Jain Education International स्वपुष्पं दर्शयत्येव कुलीना सुपयोधरा । मधुपश्चुंब्यमाना च वल्ली वेश्याते सदा ॥ ७४ ॥ पानीये बालिशैर्नूनं धरास्थे प्रतिबिंबितं । दृश्यते च शुभाकारं धरायां संगतं नभः ॥ ७५ ॥ दूरस्थैर्दूरतो नूनं नरैविज्ञानपारगैः । ईक्ष्यते च शुभाकारं धरायां संगतं नभः ।। ७६ । सुनेत्रे च शुभाकारे प्रियवादिनि मानिनि । त्वद्गर्भे पुण्यवान् कोऽपि समस्ति नयनप्रिये ॥ ७७ ॥ बिंदुरहितं वचनं गुरुराजस्य ये कुर्वति नराः सदा । दुःखं ते यांति किं साधु पक्षपातसमुद्यताः ॥ ७८ ॥ "वंचनपदाद्विदुच्युतकं" निर्गत्य कालमखिलं जिननाथमातु, रेवं सुरेश्वर वधूर्विविधां च सेवां । चक्रे सु कालकथया वर तीर्थ चक्रि, विष्णुप्रविष्णु बलदेव कथां तथा च ॥ ७६ ॥ दालस्यतंद्रारुचिदेहगेहे, भ्रङ्गस्त्रिवल्या जठरे न चाभू तस्या मुखे पांडुरता न चाभूद् गुणप्रभावाच्छयने सुखं न ॥ ८० ॥ मासेऽथ पूर्णे नवमे सुयोगे, सुवासरे चंद्रबले सुलग्ने । नक्षत्रयोगे नरनाथ पत्नी, सविष्यते सत्तनुजं शुभांगं ॥ ८१ ॥ आशास्तदा निर्मलतां गतां पराः, विष्णोः पदं पांशुविवर्जितं शुभम् । क्षोणी त्रुणैरोमचिता प्रमोदतो, मार्गाः सुरम्या नगरं शुभावहं ॥ ८२ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386