Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text ________________
पंचदशमः सर्गः
श्री पद्मनाभंवर भावितीर्थं
___ नत्वा समस्तार्थविबोधनेऽहं । वक्ष्ये च कल्याणक पंचकं च
तस्यागहान्यशिवशर्मसिद्धये ॥ १ ॥ एकविंशतिसहस्रवर्षके पंचमस्य समयस्य संगते । हायने च युगषष्टयोर्गते पंचमस्य समकालवत्तिनः ।। २ । उत्सर्पिणी युगमकालसहस्रवर्षे
___ ख्याताश्च पोडशशुभा मनवो बभूवुः । नानासुनीति निपुणा वरबोधभावा
न्याये जनान् शुभधिया खलु योजयंत: ।। ३ ।। तत्रांत्यमः शुभकरः सुरसेव्यपादो,
__नानागुणः कुलकरश्च महादिपद्मः । शुभन्मयूखहतता ममको गभीरो,
विख्यातकीतिरतुलाभरणविशिष्ट: ॥ ४ ॥ वक्त्रेण चंद्रं नयनेन तारां
__ वक्षस्थलेनैव शिलां जिगाय । दंतेन कुंदं भुजयुग्म केन शेषं च
__भूभज्जिननाथ तातः ।। ५ ।। गुणाश्च रूपं सकला: कलाश्च
शीलं यशो लोकविभागचारि । नरेशताऽशेष विशेषवित्वं
यस्मिन् बभूवुर्नरनाथ सेव्ये ॥ ६ ॥ जीवायते यो वर बुद्धिलब्ध्या
मारायते रूप वयोमयूखैः । देवायते संततिभूतिभावः,
सूर्यायते कांतिवितानवृन्दैः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386