Book Title: Shrenika Charitra
Author(s): Shubhachandra Acharya, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 356
________________ श्रेणिक पुराणम् ३४३ सहस्रशूककीटस्य स्पर्शनाद्भूमिसंगतः । किंचिदुःखं प्रजायेताधिकं तत्र शरीरिणां ।।१२४॥ योषितोऽन्यनराणां चाव्यभिलाषं प्रकुर्वते । तप्ताय: पुत्रकैः साकं योज्यंते ता: स्वपापतः ।।१२।। नरोऽन्ययोषिता साकं भुजंति विषयान्वरान् । तप्तपांचालिकासाकमालिंग्यतेऽत्र नारकैः ।।१२६॥ ये पिबंत्यासवं मढास्ते तत्राशर्मपीडिताः । तप्तनागरसास्तैश्च पाय्यंते दीनमानसाः ।।१२७।। अगालितजले येऽत्र मज्जयंत्युष्णशांतये । तप्ततैले कटाहे ते मज्यंते तत्र नारकः ॥१२८।। ये कुर्वति महामोहात्परस्त्री कुचमर्दनम् । पीड्यंते ते परैः शस्त्रैर्नारकर्ममवादिभिः ॥१२६।। योयुध्यते खलास्तत्र छछिद्यते च शस्त्रकैः । भेभियंते नखैस्तीक्ष्णैश्चेक्रीयते च घातनं ॥१३०॥ पापच्यते कृशानौ तेजहन्यते परस्परम् । सासह्यते परां पीड़ां लोलुक्यंते दिशोदश ॥१३॥ पापट्यंते च मर्माणि चंचर्यते च मष्टिभिः । अन्योन्यं नारकास्तत्र प्रेर्यमाणाश्च भावनैः ॥१३२।। जीवितात् तं सुखं तत्र क्षणमेकं न विद्यते । असातं प्रचुरं तीव्र कविवाचामगोचरं ॥१३३।। शीतवातातपादीनां दुःखं तिर्यक्षु विद्यते । भारारोपणसंजातं क्षुत्तृषावेदनाभवं ॥१३४॥ परस्परं तिरश्चां च साध्वसं मनुजात्पुनः । अन्योन्यं चर्वणं तेषां सबलैनिर्बलात्मनां ॥१३५॥ स्त्रीपुत्रमित्रपित्रादि वियोगा दे धते नरि । अशर्मधनराहित्यात्पर सेवा दरिद्रजं ॥१३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386