________________
श्रेणिक पुराणम्
३४३
सहस्रशूककीटस्य स्पर्शनाद्भूमिसंगतः । किंचिदुःखं प्रजायेताधिकं तत्र शरीरिणां ।।१२४॥ योषितोऽन्यनराणां चाव्यभिलाषं प्रकुर्वते । तप्ताय: पुत्रकैः साकं योज्यंते ता: स्वपापतः ।।१२।। नरोऽन्ययोषिता साकं भुजंति विषयान्वरान् । तप्तपांचालिकासाकमालिंग्यतेऽत्र नारकैः ।।१२६॥ ये पिबंत्यासवं मढास्ते तत्राशर्मपीडिताः । तप्तनागरसास्तैश्च पाय्यंते दीनमानसाः ।।१२७।। अगालितजले येऽत्र मज्जयंत्युष्णशांतये । तप्ततैले कटाहे ते मज्यंते तत्र नारकः ॥१२८।। ये कुर्वति महामोहात्परस्त्री कुचमर्दनम् । पीड्यंते ते परैः शस्त्रैर्नारकर्ममवादिभिः ॥१२६।। योयुध्यते खलास्तत्र छछिद्यते च शस्त्रकैः । भेभियंते नखैस्तीक्ष्णैश्चेक्रीयते च घातनं ॥१३०॥ पापच्यते कृशानौ तेजहन्यते परस्परम् । सासह्यते परां पीड़ां लोलुक्यंते दिशोदश ॥१३॥ पापट्यंते च मर्माणि चंचर्यते च मष्टिभिः । अन्योन्यं नारकास्तत्र प्रेर्यमाणाश्च भावनैः ॥१३२।। जीवितात् तं सुखं तत्र क्षणमेकं न विद्यते । असातं प्रचुरं तीव्र कविवाचामगोचरं ॥१३३।। शीतवातातपादीनां दुःखं तिर्यक्षु विद्यते । भारारोपणसंजातं क्षुत्तृषावेदनाभवं ॥१३४॥ परस्परं तिरश्चां च साध्वसं मनुजात्पुनः । अन्योन्यं चर्वणं तेषां सबलैनिर्बलात्मनां ॥१३५॥ स्त्रीपुत्रमित्रपित्रादि वियोगा दे धते नरि । अशर्मधनराहित्यात्पर सेवा दरिद्रजं ॥१३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org