________________
३१८
श्रीशुभचन्द्राचार्यवर्येण विरचितम्
तत्र भुक्त्वा चिरं शर्मामरंदेवी समाश्रितं । स्वायुरंते ततश्च्युत्वा त्वमभूः श्रेणिकात्मजः ॥ ५७ ॥ अतः परं तपः कृत्वा त्वं सेत्स्यसि जिनोदितं । अपृच्छत्स्वभवान् दंतिकुमारो मुनिपुंगवं ॥ ५८ ॥ तदाह भगवान् पुत्र समाकर्णय त्वद्भवान् । एकस्मिन् दारुणे भीमेऽरण्ये वृक्षादिमंडिते ॥ ५६ ॥ सुधर्माख्यो महायोगी योगोद्दीपितविग्रहः । ध्यानेनास्थाद्विशुद्धात्मविशदेनस्ववत्तिना ॥६० ॥ अथोदारुण्यभिल्लाख्योऽधिष्ठाताबिपनस्य च । अरण्येऽग्निमदात्तंवा जानन् योगभरावहं ॥६१ ॥ दावानलश्च कब्पांत कालप्रख्यो मुनीश्वरं । स्थिरध्यानं न जज्वाल कायमानं न जंतुकं ॥ ६२॥ विसW स निजप्राणान् च्युतं चागमद्दिवम् । भिल्लस्तद्विग्रहं वीक्ष्य विषण्णोऽभूत्स्वनिंदकः ॥ ६३ ।। निः कारणं मयास्यैव गात्रं चारित्रचित्रितम् । तपः पूतं नृपैर्वद्यं संदग्धं पापिना शुभम् ।। ६४ ॥ कालांते स ततश्च्युत्वा तत्राभूत्सिधुरः शुभः । दीर्धांगो दीर्घदंतश्च चलदंजनसंनिभः ॥६५॥ अथो अष्टान्हिकायां च द्वीपं नंदीश्वरं सुरः । सोऽच्युतस्थश्चचालाशु तत्रापश्यत्तकं गजं ॥ ६६ ॥ अनुदैवो मुनेर्मुद्रां पूर्वजां तत्र सद्वने । समादाय स्थितो ध्याने समुत्तीर्य च पुष्करात् ॥ ६७ ।। तदागमनमार्गे तं स्थितं वीक्ष्य गजोत्तमः । अभूज्जातिस्मरो वेगान्मुंचयन्नायनं जलम् ।। ६८ ।। प्रणिपत्य मुनिनाथं तं निंदयत्स्वभवावलीं। तद्वाक्यादाददौ श्राद्ध व्रतानि स सुदर्शनम् ॥ ६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org