Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / . [211 ] हेतु च सम्यगंविपरीतं तत्वार्थश्रद्धानलक्षणं दर्शनं सम्यग्दर्शनं मोक्षादिसोपानं तद्विशुद्धिकरणं च किं तच्चैत्यवन्दनादि आदिशब्दात्पूजादिपरिग्रहः विधिना सूत्रोक्तेन प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिः स्थाने शुभाध्यवसायप्रवृत्तरेतच्च चैत्यगृहे सति भवतीति गाथार्थः / उक्ताश्चैत्यगृहगुणाः सांप्रतं समानधार्मिकगुणानाहसाहम्मियथिरकरणं वच्छल्ले सासणस्स सारो ति / मग्गसहायत्तणओ तहा अणाओ य धम्माओ॥३४२। [ साधर्मिकस्थिरीकरणं वात्सल्ये शासनस्य सार इति / मार्गसहायत्वात्तथा अनाशश्च धर्मात् // 342 // ] समानधामिकस्थिरीकरणमिति यदि कश्चित्कथंचिद्धर्मात् प्रच्यवते ततस्तं स्थिरीकरोति महांश्वायं गुणः तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार आसेवितो भवति उक्तं च" जिणसासणस्स सारो" इत्यादि सति च तस्मिन् वात्सल्यमिति तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्गसहायत्वादनाशश्च भवति कुतो धर्मात्तत एवेति गाथार्थः। उक्ताः समानधार्मिकगुणा सांप्रतं तत्र निवसतो विधि 1 (अ) सार आसेवितो भवति उक्त जिणसासणस्स सारो इत्यादि। (ब) सारश्च सेवेतो भवता उत्तापगागण भासण सरो इत्यादि।

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246