Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / / [ 237 ] जानाति तदभावजं सन्निपाताभावोत्पन्नं सातं सौख्यमिति अतो गैगादिविरहात्सिद्धानां सौख्यमिति स्थितं जन्मादीनामभावाचेति यथोक्तं तथावस्थाप्यते तत्रापि जन्मायभावमेवाहदडढमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती। तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्टा / 396 / [दग्धे यथा बीजे न भवति पुनः अंकुरस्योत्पत्तिः। तथैव कर्मबीजे भवांकुरस्यापि प्रतिकुष्टा // 396 // ] दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्कुरस्यो. त्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवांकुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति / जंमाभावे न जरा न य मरणं न य भयं न संसारो। एएसिमभावाओ कहं न सुक्खं परं तेसिं // 397 // [ जन्माभावे न जरा न च मरणं न च भयं न संसारः / एतेषामभावात्कथं न सौख्यं परं तेषाम् / / 397 // ] जन्माभावे न जरा वयोहानिलक्षणा आश्रयाभावान्न च मरणं प्राणत्यागरूपं तदभावादेव न च भयमिहलोकादिभेदं निबन्धनाभावान्न च संसारः कारणाभावादेव एतेषां जन्मादीनामभावात्कथं न सौख्यं परं तेषां सिद्धानां किन्तु सौख्यमेव जन्मादीनामेव दुःखरूपत्वादिति अव्याबाधमिति यदुक्तं तदाह
Page Navigation
1 ... 240 241 242 243 244 245 246