Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 241
________________ [ 236 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति अभिध्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति / अतिसंक्लेशरूपास्तथानुभवोपलब्धेः हेतयोऽपि च संक्ले. शस्य क्लिष्टकर्मबन्धनिबन्धनत्वादिति / एएहभिभूआणं संसारीणं कुओ सुहं किंचि। जम्मजरामरणजलं भवजलहिं परियडताणं।३९४॥ [एभिः अभिभूतानां संसारिणां कुतः सौख्यं किंचित् / जन्मजरामरणजलं भवजलधिं पर्यटताम् // 394 // ] एभी रागादिभिरभिभूतानामस्वतन्त्रीकृतानां संसारिणां सत्वानां कुतः सुखं किंचिन्न किंचिदित्यर्थः किविशिष्टानां जन्मजरामरणजलं भवजलधि संसारार्णवं पर्यटतां भ्रमतामिति / एतदभावे सुखमाह- . रागाइविरहओ जंसुक्खं जीवस्स तं जिणो मुणइ। न हि सन्निवायगहिओ जाणइ तदभावजं सात।३९५ [ रागादिविरहतो यत्सौख्यं जीवस्य तजिनो मुणति / न हि सन्निपातगृहीतः जानाति तदभावजं सातम् // 395 // ] रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्लेशवर्जितं तज्जिनो मुणति अर्हन्नव सम्यग्विजानाति नान्यः किमिति चेन्न हि यस्मात्सन्निपातगृहीतः सत्येव तस्मिन्

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246